SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ लोकस्वरूपम् ] न्यायप्रकाशसमलते नान्यत्रेति भावः । स्वयम्भूरमणसमुद्रस्तु शुद्धोदकरसः, आदिनाऽरुणावासकुण्डलवरशंखवररुचकवरादीनां द्वीपानां ग्रहणं समुद्राणां नामान्यपि द्वीपनामतुल्यान्येव। एते सर्वेऽपि जम्बूद्वीपादरभ्य नैरन्तर्येण व्यवस्थिताः, ततो रुचकवरादसंख्येयान द्वीपसमुद्रान् गत्वा भुजगवरो नाम द्वीपः, ततोऽप्यसंख्येयान् तानुल्लंघ्य कुशवरो द्वीपस्ततोऽपि तथैवोल्लंध्य कोंचवरस्ततोऽपि तथैवोल्लंघ्याभरणादयो द्वीपा भाव्यास्समुद्रा अपि तादृशनामान एव, 5 मध्यगानां द्वीपानां नामानि लोके यावन्ति शुभनामानि शंखध्वजकलशश्रीवत्सादिरूपाणि तावन्त्येवेति ।। ननु निखिलेषु द्वीपेषु मनुष्या वसन्त्यथवा द्वीपविशेष इत्याशङ्कायामाह-- तत्र पुष्करवरद्वीपाधं यावन्मानुषं क्षेत्रम्, ततः परं मनुष्यलोकपरिच्छेदकः प्राकाराकारो मानुषोत्तरो नाम भूधरो वर्तते । नास्मात्परतो 10 जन्ममरणे मनुष्याणां जायते ॥ तत्रेति । प्रोक्तद्वीपेषु मध्य इत्यर्थः, तथाच यावत्पुष्करवरद्वीपाधं मानुषं क्षेत्रं पश्चच. त्वारिंशद्योजनशतसहस्राणि आयामविष्कम्भेण, एका योजनकोटी द्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे योजनशते एकोनपश्चाशत् किश्चिद्विशेषाधिके परिक्षेपेण बोध्यम् , मनुष्यक्षेत्रे कर्मभूमिका अकर्मभूमिका अन्तरद्वीपकाश्चेति त्रिविधा मनुष्याः परिवसन्ति, तथा च 15 जम्बूद्वीपस्य सप्त क्षेत्राणि धातकीखण्डस्य चतुर्दश पुष्करार्धस्य च चतुर्दशेति संमिलितानि पञ्चत्रिंशत्क्षेत्राणि मानुषाणीति भावः । अस्य व्यवच्छेदकमाह ततःपरमिति, पुष्करवरार्धात्परं बाह्यपुष्करवरार्धक्षेत्रं प्रतिरुद्ध्य नरक्षेत्रसीमाकारी प्राकाराकारः यथा भित्तिर्गृह द्वेधाकरोति तथा द्वीपस्यास्य भेदकोऽन्वर्थनामा मानुषोत्तरो भूधरो वर्वर्तीति भावः,अयं पर्वत एकविंशत्युत्तरसप्तदशयोजनशतान्युच्चैस्त्वेन मूले द्वाविंशत्युत्तराणि दशयोजनशतानि विष्कम्भेण वर्त्तते, अमुं 20 मानुषा न कदाचिदपि व्यतिब्रजितवन्तो व्यतिव्रजन्ति व्यतिब्रजिष्यन्ति वाऽन्यत्र चारणा १. पुष्कराणि पद्मानि तेर्वरः पुष्करवरः, स चासौ द्वीपश्च पुष्करवरद्वीपः तस्यार्ध इति विग्रहः । पूर्वार्धे उत्तरकुरुषु यः पद्मवृक्षः, पश्चिमाधैं उत्तरकुरुषु यो महापद्मवृक्षः, तयोरत्र पुष्करवरद्वीपे यथाक्रम पद्मपुण्डरीको देवी महर्द्धिको यावत्पल्योपमस्थितिको पूर्वार्धापरार्धाधिपती परिवसतः । अतिविशालत्वात्पऱ्या वृक्ष इव पद्मवृक्षं, पद्मश्च पुष्करमिति पुष्करवरोपलक्षितो द्वीपः पुष्करवरद्वीप उच्यत इति ।। २. देवकुरुत्तरकुरूणां महाविदेहेऽन्तर्भावेणैतद्बोध्यमन्यथा पंचदशकर्मभूमिस्त्रिंशदकर्मभूमिरिति पञ्चचत्वारिंशत्क्षेत्रसंख्या व्याहन्येत ॥
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy