SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ तत्सम्यायविभाकरे दिभ्यः । ततः किमित्यत्राह नास्मात्परत इति, यस्मादयं पर्वतो मानुषक्षेत्रमात्रस्योत्तरं वर्ततेऽत एवास्मात्परतः क्षेत्रेषु मनुष्याणां न जन्ममरणे भवतः, मनुष्याणां हि जन्म मरणं चात्रैव क्षेत्रे, यदि नाम केनचिदेवेन दानवेन विद्याधरेण वा पूर्वानुबद्धवैरनिर्यातनार्थमेवरूपा बुद्धिः क्रियते यथाऽयं मनुष्योऽस्मात्स्थानादुत्पाट्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां येनोर्द्ध5 शोषं शुष्यति म्रियते वेति तथापि लोकानुभावादेव सा काचनापि बुद्धिर्भूयः परावर्त्तते, यद्धा संहरणमेव न भवति, संहृत्य वा भूयस्समानयति तेन संहरणतोऽपि मनुष्यक्षेत्राहिमनुष्याणां न कदापि मरणम् , येऽपि जङ्घाचारिणो विद्याचारिणो वा नन्दीश्वरादीनपि यावद्गच्छन्ति तेऽपि तत्र गता न मरणमश्नुवते किन्तु मनुष्यक्षेत्रमागता एवेति भावः ।। इत्थं तिर्यग्लोके मनुष्यनिवासयोग्यानि क्षेत्राण्यभिधाय ज्योतिष्कनिवासयोग्यं प्रदेशमाह10 रुचकाभिधानसमतलादूर्ध्व नवत्युत्तरसप्तशतयोजनान्तेऽनुक्रमेण जघन्योत्कृष्टतः पल्योपमाष्टमचतुर्थभागायुष्काणांतारकाणां विमानानि, तत ऊर्ध्वं दशयोजनेषु सहस्राधिकपल्योपमायुष्कसूर्यविमानं, तदुपर्यशीतियोजनेषु लक्षाधिकपल्योपमायुष्कचन्द्रविमानम् , ततोऽप्यूज़ विंशतियोजनेषु अधेपल्यैकपल्योपमायुष्काणां नक्षत्रग्रहाणां विमानानि ॥ 15 रुचकेति । अनुक्रमेणेति, तारकाणां जघन्या स्थितिः पल्योपमस्याष्टमो भाग उत्कृष्टा तु पल्योपमस्य चतुर्थो भाग इत्येवं क्रमेणेत्यर्थः, तारकाणां विमानानीति, ज्योतिष्कविशेषाणां विमानप्रस्तारा इति भावः, तत ऊर्ध्वमिति, तारकविमानादूर्ध्वमित्यर्थः, सहस्राधिकेति, उत्कृष्टत इदमिति विज्ञेयम् , जघन्यतस्तु सूर्यचन्द्रनक्षत्रग्रहाणां पल्योपमचतुर्थ भागः, यद्यपि सूर्याचन्द्रमसोः कनीयसी स्थितिर्न संभवति तथाप्येषु विमानेषु नाकिनस्त्रि20 विधास्सन्ति विमाननायकाः तत्सदृशाः परिवारसुराश्चेति, तत्र नायकतत्सदृशापेक्षया परा स्थितिः परिवारदेवापेक्षया तु जघन्या विज्ञेया, एवं ग्रहविमानादिष्वपि, अत एव सहस्रा. धिकपल्योपमायुष्केति पदस्य सूर्यविशेषणत्वाजघन्या स्थिति!क्ता, एवमग्रेऽपि । चन्द्रविमानमाह तदुपरीति सूर्यविमानोपरीत्यर्थः, नक्षत्रग्रहाणां विमानान्याह ततोऽपीति चन्द्रविमानादपीत्यर्थः, विंशतियोजनेविति, विंशतियोजनेषु मध्ये इत्यर्थः । नक्षत्रग्रहाणा25 मिति, नक्षत्राणां ग्रहाणाश्चेत्यर्थः ग्रहा मङ्गलादयः, कीदृशानामित्यत्राहार्धपल्येति, उत्कर्षेणा र्धपल्योपमायुष्काणां नक्षत्राणामेकपल्योपमायुष्काणाञ्च ग्रहाणामित्यर्थः, एते मनुष्यक्षेत्रान्तर्वर्तमानाश्चन्द्रसूर्यनक्षत्रग्रहतारारूपा विमानोपपन्ना मण्डलगत्या परिभ्रमणमाश्रिताश्वारसहिताः स्वभावतो गतिरतिकास्साक्षाद्गतियुक्ता देवा इति मनुष्यक्षेत्राबहिर्वतिनश्चन्द्रा
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy