________________
तस्वन्यायविभाकरे
[ द्वितीयांकले तत्रालोकभिन्नः केवलिनाऽवलोक्यमानो लोकः, स च पश्चास्तिकायात्मकः कटिन्यस्तहस्तयुग्मवैशाखसंस्थानसंस्थितपादनराकृतिरुत्पत्तिस्थितिव्ययात्मकश्चतुर्दशरज्जुपरिमाण ऊर्ध्वाधस्तिर्यग्भेदभिन्नः ।।
तत्रेति । लोकभावनायामित्यर्थः, अस्मदादिभिरवलोक्यमानत्वं न सर्वत्रास्तीति केव5 लिनेत्युक्तम् , केवलिनाऽवलोक्यमानत्वमलोकस्यापीति तद्भिन्नत्वमुक्तं तावन्मात्रं शशशृङ्गादावपीति विशेष्यम् , यदेशावस्थितेनः केवलिना विलोक्यते स देशो लोक इति तु न लोकमाव्यापकं परिच्छिन्नदेशवृत्तित्वात्तस्य, लोके स्थित्वा विलोक्यत इति तु परस्पराश्रयमिति । कोऽसावित्यत्राह पश्चास्तिकायात्मक इति जीवाजीवरूप इत्यर्थः । तस्य संस्थानमाह कटिन्य
स्तेति, कट्यां न्यस्तं विन्यस्तं करयुग्मं यस्य तादृशस्य, वैशाखस्य यत्संस्थानं पूर्वापरायत10 कोटिरूपं तदिव संस्थितौ न्यस्तौ पादौ यस्य तादृशस्य च नरस्य पुरुषस्याकृतिरिवाकृतिर्यस्य
तथाभूत इत्यर्थः, उत्पत्तिस्थि तिव्ययस्वभावपदार्थपरिपूर्णत्वात्सोऽपि तथेत्याहोत्पादेति । तत्परिमाणं सूचयति, चतुर्दशरज्जुपरिमाण इति, अधस्ताद्देशोनसप्तरज्जुविस्तारः, तिर्यग्लोकमध्य एकरज्जुविस्तारः ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः, उपरि तु लोकान्त एकरज्जु
विस्तारः, शेषस्थानेषु कोऽपि कियानस्य विस्तार इति उच्छायतस्तु चतुर्दशरज्जवोऽस्य 15 प्रमाणमिति भावः । तस्य विभागमाहोधिस्तिर्यग्भेदभिन्न इति, ऊर्ध्वलोकोऽधोलोकस्तिर्यग्लोकश्चेति भागत्रयवानित्यर्थः ॥ रजोः प्रमाणमाह
असंख्येययोजनकोटाकोटिप्रमाणा रज्जुः ॥ असंख्येयेति । संख्यातुमयोग्यस्स्वसमयपरिभाषितोऽसंख्येयः कोटाकोटीति, कोटेः 20 कोटिना गुणने लब्धायास्संख्यायाः कोटाकोटीति संज्ञा बोध्या । असंख्येयानां योजनानां
या कोटाकोटिस्तत्प्रमाणा रज्जुर्भवति, कृत्स्नद्वीपपयोधिपर्यन्तवर्त्तिनस्स्वयम्भूरमणाभिधानजलनिधेः परतटवर्तिपूर्ववेदिकान्तादारभ्य यावत्तस्यैव तोयनिधेरपरवेदिकान्तमेतावत्प्रमाणा रज्जुरिति ॥
तत्र प्रथममधस्तनलोकस्वरूपमभिधातुकामोऽधोभागमाविष्करोति25 तत्र रुचकादधो नवशतयोजनान्युल्लंघ्य साधिकसप्तरज्जुप्रमाणो लो- कान्तावधिरधोमुखमल्लकाकृतिभवनपतिनारकनिवासयोग्योऽधोलोकः ॥