________________
लोकस्वरूपम् ]
न्यायप्रकाशसमलङ्कते तत्रेति । लोक इत्यर्थः, बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये वक्ष्यमाणस्वरूपो मध्यलोकस्य मध्यभूतो रुचको भवति, तस्मादधोभागे नवशतयोजनानि यावत्तिर्यग्लोको भवति तदुक्तं " योजनानां नवशतान्यतीत्य रुचकादितः। आलोकान्तमधोलोकस्तप्राकृतिरुदाहृत" इति । साधिकेति, तदुक्तं ' सातिरेकसप्तरज्जुमानोऽधोलोक इष्यत' इति, अधोमुखमल्लकाकृतिरिति, ऊर्ध्वमल्पोच्छायत्वादधोऽधो महाविस्तारत्वाच्चाधोमुखशरावाकार- 5 संस्थान इति भावः । तत्र वासयोग्यानाह-भवनपतीति, विस्तरस्त्वग्रे वक्ष्यते, अधोलोक इति, अधः-अशुभः परिणामो बाहुल्येन क्षेत्रानुभावाद्यत्र लोके द्रव्याणामसावधोलोक इत्यर्थः ॥
कोऽसौ रुचक इत्यत्राह
रुचकस्तु रत्नप्रभापरनामघर्मापृथिव्युपरितनक्षुल्लकप्रतरद्विके मेरुध. 10 राधरमध्ये उपय॑धोभावेन स्थितश्चतुरस्राकृतिराकाशप्रदेशाष्टकः । अयश्च मध्यलोकस्य मध्यं दिग्विदिग्व्यवहारमूलश्च ॥
रुचकस्त्विति । अष्टविधासु पृथिवीषु धर्मानाम्न्येका पृथिवी, यस्या रत्नप्रभा इति नामान्तरं, तत्र मध्ये मेरुवर्तते, तत्र चायामविष्कम्भाभ्यां प्रत्येकं रज्जुप्रमाणौ सर्वप्रतराणां क्षुल्लको द्वौ नभःप्रदेशप्रतरौ विद्यते उपर्यधोभावेन, तयोश्च मेरुमध्यप्रदेशे मध्यं लभ्यते, 15 तत्र च मध्य उपरितनप्रतरस्य ये चत्वारो नभःप्रदेशास्तथाऽधस्तनप्रतरस्य ये चत्वारो व्योमप्रदेशास्तेषामष्टानामपि प्रदेशानां समये रुचक इति परिभाषा । अयश्चाष्टप्रदेशको रुचकस्समस्ततिर्यग्लोकमध्यवर्ती गोस्तनाकारः क्षेत्रतः षण्णामपि दिशां चतसृणामपि विदिशां प्रभव इत्याशयेनाहायश्चेति, चशब्दो भिन्नक्रम एवार्थे, तथा च तिर्यग्लोकस्यैव मध्यं, न तु लोकस्य, भगवत्यादौ रत्नप्रभाघनोदधिघनतनुवातान् गगनस्यासंख्येयभागञ्चा- 20 तीत्य लोकमध्यव्यवस्थितेः, तस्मादेव चोर्ध्वमधश्च सम्पूर्णास्सप्तरजवो भवन्ति, तदुक्तं 'धर्माघनोदधिधनतनुवातान् विहायसः । असंख्यभागश्चातीत्य मध्यं लोकस्य कीर्तितम् । अस्मादूर्ध्वमधश्चैव सम्पूर्णास्सप्तरजवः' इति भावः । दिग्विदिग्व्यवहारमूलमिति, अस्मादेव रुचकादिशो विदिशश्च प्रभवन्ति, विजयद्वारानुसारेण प्रथमा दिगैन्द्री, ततोऽवशिष्टाः
१. अस्य लोकस्य मध्यन्तु चतुर्थ्याः पञ्चम्याश्च पृथिव्या यदवकाशान्तरं तस्य सातिरेकमधमतिवाह्य भवति ॥ २. तिर्यग्लोकमध्यभागवर्तिनाविमौ, उपरितनक्षुल्लकमवधीकृत्योर्ध्व प्रतरवृद्धिरधःक्षुल्लकमवधीकृत्याधः प्रतरवृद्धिः प्रवृत्ता, अतः शेषापेक्षयेमौ लघुतरौ रज्जुप्रमाणायामविष्कम्भौ वृद्धिहानिवर्जितौ लोकस्य बहुसमौ भागौ बोध्यौ ॥. .