________________
वायविभाकरे
[ द्वितीयकिरणे
जन्मेति । पितृमातृभ्रातृदयितातनयादिपरिवेष्टितस्यापरिवेष्टितस्य वा त्रैलोक्यविध्वंसनपदिष्ठसामर्थ्यस्यासामर्थ्यस्य वा मंत्रतंत्रादिक्रिया सुगूढस्यानिगूढस्य वा नानाशास्त्रकृत परिश्रमस्यापरिश्रमस्य वा जन्तुमात्रस्य जन्मजरामरणादिजन्यदुःख परिवेष्टितत्वेन दुःखदावा भिज्वलज्ज्वालाकरालकरम्बितेऽस्मिन् संसारे शरणं भयापहारिस्थान मर्हच्छासनातिरिक्तं किमपि न 5 विद्यत इत्येवं पर्यालोचनमशरणभावनेत्यर्थः, तथा चिन्तयतो लाभमाह एवं भावयत इति अशरणभयात्सांसारिकपदार्थजातेषु प्रीत्यभावेन वैराग्यं लभते, जन्मजरामरणभ्रयाक्रान्तानानार्हच्छासनोक्तविधेरेव प्रकृष्टशरणत्वाज्ज्ञानदर्शनचरणलक्षणे तद्विधौ प्रवर्त्तत इति भावः ॥
संसारभावनामाह
: ५५८ :
संसारे वम्भ्रम्यमाणानां जनानां सर्व एव स्वजनाः परजनाश्चेति 10 विचारस्संसारभावना । एवं विचारयतः केष्वपि ममत्वाभावान्निर्विण्णस्य संसारपरिहाराय यत्न उदीयात् ॥
संसार इति । इतश्चेतश्च परिभ्रमण संसारः, तत्र जीवपुद्गलानां यथायोगं भ्रमणं द्रव्य-: संसारः, क्षेत्रसंसारो येषु चतुर्दशरज्ज्वात्मकेषु द्रव्याणां संसरणं सः, नारकतिर्यङ्नरामरगतिचतुर्विधानुपूर्व्युदयाद्भवान्तरसंक्रमणं भवसंसारः, दिवस पक्षमा सर्व्वयनसंवत्सरादिलक्षणस्य 15 चक्रन्यायेन भ्रमणं कालसंसारः, भावसंसारस्तु संसृतिस्वभाव औदयिका दिभाव परिणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागानां प्रदेशविपाकानुभवनम् तथा च कर्मसंबन्धात्संसारी जन्मजरामरणरोगशोकादिग्रस्तत्वेन दुःखस्वभावे जन्मान्तरे नरकादिदुः खभाबाहुः खफले “पुनः पुनर्दुःखसन्तानसन्धानाद्दुःखानुबन्धिनि सुरनरनैरयिकतिर्यक्सुभगादुर्भगादिविचित्ररूपे सुखलेशाभावादसारे चक्रवत्पौनःपुन्येन भ्राम्यतां जनिजुषामेकद्वित्रिचतुः पश्चेन्द्रियास्सर्व एव यदा जनकता20. सम्बन्धेन स्वाम्या दिसम्बधेन वा सम्बन्धिनस्तदा स्वजना उच्यन्ते यदा च न तेन सम्बन्धेन सम्बन्धिनस्तदा परजना न पुनः सर्वथा स्वजनत्वं परजनत्वं वा नियतं, रागद्वेषमोहामिभूतत्वेन जन्तूनां नानायोनौ पृथक् पृथक् परिभ्रमणात्, अत एव प्रकृष्टानि दुःखान्यनुभवन्ति इत्येवं विधो विचारः संसारभावनेत्यर्थः, फलमाह एवमिति, प्रचुरदुःखफलनानायोनि भ्रमणभयेन कापि ममत्वाभावात् सांसारिक सुखेषु तडित्कल्पेषु विषमिश्रपयोनिभेषु जिहासितो 25 भवति, ततश्च संसारपरित्यागाय प्रयत्नवान् भवतीति भावः ॥
एकत्वभावनामाचष्टे—
एक एवाहं जाये म्रिये न मे कश्चिदात्मीयः परो वा नवा कश्चिन्म