________________
भावनामेदाः ]
न्यायप्रकाशसमलङ्कते संस्कारस्य पुनस्तदनुष्ठानरूपा, आत्मगुणः ज्ञानजाज्ञानहेतुश्च दृष्टानुभूतश्रुतेष्वर्थेषु स्मृतिप्रत्यभिज्ञानकार्योनीयमाना च, धारणात्मकमतिविशेषरूपैवेयं यदा धर्मार्थ चित्तस्थिरतायां कारणं भवति तदा सा भावनोच्यत इत्याशयेनोक्तं धर्मार्थ चित्तस्थिरीकरणहेतुरिति, तथाच ज्ञानदर्शनचारित्रतपोवैराग्यादिषु चित्तस्थैर्याय यो विचारस्सा भावनेत्यर्थः । तस्या भेदा अनित्यादिरूपा द्वादशविधाः पूर्वमेव संवरे प्रोक्ताः परन्तु प्रत्येकं स्वरूपाणि न दर्शितानीति. 5 तत्स्वरूपाणि दर्शयितुं प्रतिजानीते द्वादशविधेति ॥ - तत्रादावनित्यभावनामाह
बाह्याभ्यन्तरनिखिलपदार्थेष्वनित्यत्वचिन्तनमनित्यभावना। अनया चैषां संयोग आसक्तिर्विप्रयोगे च दुःखमपि पुरुषस्य न स्यात् ॥ - बाह्येति । बाह्येषु शय्याऽऽसनवस्त्रौघोपधिषु प्रतिदिवसमिमे रजसा विपरिणम्यमाना- 10 स्सर्वप्रकारेण स्वां सन्निवेशावस्थां विहाय विशरारुतां प्रतिपद्यन्ते, आभ्यन्तरं शरीरद्रव्यं जीवप्रदेशाप्तत्वात् , इदमपि जन्मनः प्रभृति पूर्वपूर्वावस्थां जहदुत्तरोत्तरावस्थामास्कन्दत्प्रतिक्षणमन्यान्यरूपेण च भवजराजर्जिताशेषावयवं पुद्गलजालविरचनमानं पर्यन्ते परित्यक्तस निवेशविशेषं विशीर्यते, निरीक्ष्यते हि भवे यत्प्रातरस्ति न तन्मध्याह्ने यञ्च मध्याह्ने न तनिशीथिन्यामत एव वृद्धास्सचेतनमचेतनमप्यशेषमुशन्त्युत्पादानित्यधर्मकमिति विचारोऽ- 15 नित्यभावनेत्यर्थः, ईशभावनाफलमाविष्करोति अनयेति-अनित्यभावनयेत्यर्थः एषामिति, प्राणप्रियाणामपि शरीरशय्यासनवस्त्रादीनां संयोगे आत्मना सम्बन्धे सति आसक्तिरभि. ध्वङ्गः, विप्रयोगे-वियोगे सति दुःखमपि शारीरं मानसं वा पुरुषस्य न स्यान्न भवेदेव तृष्णाविनाशेन निर्ममत्वादिति भावः ॥ • अशरणभावनामाह
जन्मजरामरणादिजन्यदुःखपरिवेष्टितस्य जन्तोस्संसारे क्वापि अहच्छासनातिरिक्तं किमपि शरणं न विद्यते इति भावनाऽशरणभावना । एवं भावयतस्सांसारिकेषु भावेषु वैराग्यं समुत्पद्येत ॥
दृष्टा नान्यत्रैवं भावयतो ज्ञानभावना, अनया नित्यं गुरुकुलवासो भवति चारित्रभावना पूर्वमेव टीकाकृता प्रदर्शिता। केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् कतरद्वा तपोऽहं विधातुं प्रभुः, कतरच्च तपः कस्मिन् द्रव्यादौ मम निर्वहति इति भावनीयं, इत्यादिरूपेण तपसि भावना । वैराग्यभावना च द्वादशविधा ग्रन्थकृता सम्प्रति प्रदीत इति ॥.