________________
ntentner: ]
न्यायप्रकाशसमलङ्कृते
•
दीयं दुःखाद्यपहर्तुं प्रभवतीत्येवं विचिन्तनमेकत्व भावना | अनया च
निस्सङ्गतां यायात् ॥
एक एवेति । एव शब्देन कदाचिदपि जननमरणानुभवो नेतरसहायो भवतीति सूचितम्, यमलकयोरपि क्रमेणैव निस्सरणान्मरणाच्च । संसारे हि जन्तुरेकक एवोत्पद्यते विपद्यतेऽस्येकक एव, दुःखी सन्नेकक एव कर्मार्जयति फलमपि तस्यैकक एवासेवते, बहुविधैः क्लेशैरर्जितं 5 धनन्तु कलत्र मित्रादिभिस्सम्भूय भुज्यते परन्तु दुःखं स्वकर्मकृतमेकक एव सहते यदर्थमपि जीवः प्रत्यहं भ्रमति क्लिश्यते समालम्बते दैन्यं भ्रश्यति धर्माद् वञ्चयत्यहितान पक्रामति च न्यायात्सोऽपि देहः परभवप्रयाणे पदमेकमपि नानुवर्त्तते; तथा च सर्वेषां स्वार्थैकनिष्ठत्वेन धर्मादृते नापरः कश्चन सहायो दुःखाद्यपहरणे दक्ष इत्येव भावनैकत्वभावनेत्यर्थः । ननु गृहावासकालीन ममतायाः कलत्रादिविषयिण्याः प्रव्रज्याकाले साधुभिस्त्यागः कृतः परन्तु साम्प्रत- 10 कालीनमाचार्यादिविषयं ममत्वं कथं परिहाय्यं भवेदिति चेदुच्यते बाह्यप्रेमणि पूर्व तनूकृते एकत्वभावनादिदाढर्थात् आचार्यादिविषयेऽपि ममत्वानुदयेन पश्चादाहारे उपधौ देहे न सज्जति छिन्नममत्वश्च सर्वेऽपि जीवा असकृदनन्तशो वा सर्वजन्तूनां स्वजनभावेन परजनभावेन च संजाताः, अतः कोऽत्र स्वजः परजनो वा इति भावनया त्रुटितप्रेमबन्धो भवतीति भावः । एवं सति यद्भवति तदाहानयाचेति । निस्सङ्गतामिति, स्वजनसंज्ञकेषु स्वीयत्वेन प्रसिद्धे शरीरे 15 च स्नेहानुरागवैधुर्यमित्यर्थः, यायादिति, प्राप्नुयादित्यर्थः, ततो मोक्षायैव चेष्टत इति भावः ॥
अन्यत्वभावनामाह-
वैधम्र्येण शरीरभिन्नतयाऽऽत्मानुचिन्तन मन्यत्वभावना । अनया च देहात्माभिमाननिवृत्तिर्जायेत ॥
वैधर्म्येणेति । यस्माज्जीवः कायमपि व्यपास्य लोकान्तरं यात्यतोऽयं वपुषो भिन्न: 20 सहगमनरूपसाधर्म्याभावात् । तथा सेन्द्रियं शरीरमतीन्द्रियोऽहं, अनित्यं तन्नित्योऽहं, आद्यन्तवच्छरीरमनाद्यनन्तश्चाहं, संसारे भ्रमतो मे बहूनि शरीराणि प्राप्तानि परं स एवाहमन्यस्तेभ्य इत्यादिविरुद्धधर्मैरन्यत्वचिन्तनमन्यत्वभावनेत्यर्थः, तत्फलमाहानया चेति । देहात्माभिमाननिवृत्तिरिति, शरीरमेवात्मेति बुद्धेः शरीरममताया वा विच्छेद इत्यर्थः तथाचैव भावयतस्सर्वस्वनाशेऽपि शोकांशोपि न जायत इति भावः ॥
अशुचिभावनामाह-
अशुचिमयः कायोऽशुचिहेतुकोऽशुचिस्यन्दी चेति विचारोऽशुचिमा - बना । एतया च शरीरविषये निर्ममत्वं स्यात्
11
25