________________
:५४०: तत्त्वन्यायविभाकरे
[ प्रथमकिरणे भावः, व्यापत्तिविनाशः प्राणवियोग इति यावत् तस्या अपि वर्जनमित्यर्थः । एतेन मवविधस्संयम उक्त इत्याह नवविध इति ।।
प्रेक्ष्योपेक्ष्यसंयमे आह
स्थानादीन् विलोक्य क्रियाचरणं प्रेक्ष्यसंयमः । साधुप्रभृतीन् प्रवच5 नोदितक्रियासु व्यापारयतः स्वस्वक्रियासु व्यापारवतो वा गृहस्थादीनुपेक्षमाणस्य संयम उपेक्ष्यसंयमः ।। __ स्थानादीनिति । स्थानं शयनासनचक्रमणयोग्य, आदिना स्थण्डिलादेः परिग्रहः, विलोक्य चक्षुषा सम्यक्तया दृष्ट्वा यथा बीजहरितजन्तुसंसक्तादिरहितं भवेदित्यर्थः ।
क्रियाचरणं शयनादिविधानं प्रेक्ष्यसंयमः प्रेक्षासंयम इत्यर्थः । उपेक्ष्यसंयममाह साधुप्रभृती10 निति, उपेक्षाशब्दोऽत्र चित्तव्यापारविशेषेऽव्यापारे च वर्त्तते व्याख्यानात् , तत्र क व्या
पारः क वाऽव्यापार इत्यत्राह प्रवचनेति, तथा च संयम प्रति सीदतां साधूनां प्रवचनविहितानुष्ठानेषु प्रेरणं, पापव्यापारमाचरतो गृहस्थस्याप्रेरणमिदं ग्रामचिन्तनादिकं सोपयोगं कुर्वित्यादिरूपेणाशनश्च कुर्वत उपेक्ष्यसंयम उपेक्षासंयमापरनामा भवतीति भावः ॥
अपहृत्यादिसंयम वक्ति15 चरणानुपकारकवस्तुनिग्रहो विधिना च प्राणिसंसक्तभक्तपानादिप
रित्यजनमपहृत्यसंयमः । दृष्टिदृष्टस्थण्डिलवस्त्रादीनां विशिष्टप्रदेशगमने रजोऽवगुण्ठितपादादीनाश्च रजोहरणादिना प्रमार्जनं प्रमृज्यसंयमः॥
चरणेति । अपहृत्यापुनर्ग्रहणतया त्यक्त्वा संयम लभते, तत्र त्यागः संयमानुपयोगिनां वस्त्रपात्राद्यतिरिक्तानाम् , तदुपयोगिनां प्राणिसंसक्तानामन्नपानादीनां जन्तुरहिते स्थाने 20 समयभणितेन विधिना परिष्ठापनं, तथाकुर्वतश्च परिष्ठापनासंयमापरपर्यायोऽपहृत्यसंयमो
भवतीत्याशयेनाह चरणेति । वक्त्यथ प्रमृज्यसंयमं दृष्टीति, प्रमार्जनं कुर्वतः संयमो भवति तच द्विविधं यथा प्रेक्षितेऽपि स्थण्डिले वस्त्रपात्रादौ च रजोहरणादिना प्रमार्जनमेकम् , अपरश्च कृष्णभूप्रदेशात्पथि पाण्डुभूप्रदेशं गच्छतः स्थण्डिलादस्थण्डिलाद्वा स्थण्डिलं संक्रामतः सचित्ताचित्तमिश्ररजोऽवगुण्ठितपादादीनां सागारिकाद्यनिरीक्षणे सति रजोहरणादिना प्रमार्जन
१. द्विविधो ह्युपेक्षासंयमः, यतिव्यापारोपेक्षा गृहस्थव्यापारोपेक्षा चेति, उभौ यथाक्रमं चोदनाचोदनविषयौ, विषीदन्तं साधुं दृष्ट्वा संयमव्यापारेषु चोदयतः संयमव्यापारोपेक्षा प्रथमः, गृहस्थमधिकरणव्यापारेषु प्रवृत्तं दृष्टा तत्र प्रवृत्तमचोदयतो गृहस्थव्यापारोपेक्षारूपो द्वितीय इति तात्पर्यार्थः ।।