________________
संयमभेदाः ]
न्यायप्रकाशसमलङ्कृते लोभसंश्रयेण शौचमाचरेत् , लोभाशौचमलोभशौचेन संशोध्य विशुद्धात्मा सत्यं ब्रूयात् , सत्यभाषी सप्तदशविधं संयममनुतिष्ठेत् , संयतात्मा शेषाशयविशोधनार्थ तपश्चरेत् ततः कायवाङ्मानसेषु धर्मोपकरणेषु च निःस्पृहत्वान्निर्ममत्वाख्यमाकिश्चन्यं भावयेत्, सत्याकिञ्चन्ये परिपूर्ण ब्रह्मचर्यं भवतीति पूर्वपूर्वस्य कारणत्वमुत्तरोत्तरस्य कार्यत्वं भाव्यम् ॥
अथ चरणमूलभेदं तृतीय संयममाह
सनियमं शरीरवाङ्मनोनिग्रहः संयमः । स च सप्तदशविधः, पृथिव्यप्तेजोवायुवनस्पतिकायद्वित्रिचतुः पञ्चेन्द्रियप्रेक्ष्योपेक्ष्यापहृत्यप्रमृज्यकायवाङ्मनउपकरणसंयमभेदात् ॥
सनियममिति । क्रियाविशेषणमिदम् , शरीरवाङ्मनसां प्रवचनोक्तेन एवमेवगन्तव्य स्थातव्यं चिन्तयितव्यं भाषितव्यमिति नियमानुगुणं निग्रहः स्वाभाविकप्रवृत्तिनि- 10 रोधः संयम इत्यर्थः। तस्य प्रभेदमाह स चेति, संयमश्वेत्यर्थः, सप्तदशविधत्वं दर्शयति पृथिवीति, वनस्पत्यन्तं द्वन्द्व विधाय कायपदेन बहुव्रीहिः, तथा द्वयादिपञ्चान्तं द्वन्द्वं विधायेन्द्रियपदेन बहुव्रीहिस्ततः सर्वेषामुपकरणान्तानां द्वन्द्वं कृत्वा संयमपदेन तत्पुरुषः, तथा च पृथिवीकायसंयमोऽप्कायसंयम इत्यादिरों लभ्यते, ये जीवाः पृथिव्यादिकायाः द्वीन्द्रियादयश्च तेषां संयम इत्यर्थः ॥
तान् दर्शयति
तत्र पृथिवीकायिकादारभ्य पञ्चेन्द्रियं यावद्ये नवविधा जीवास्तेषां करणत्रयैः कृतकारितानुमतिभिः संघट्टपरितापव्यापत्तिपरिहारः पृथिवीकायिकादिसंयमो नवविधो ज्ञेयः॥
15
.....
तत्रेति । सप्तदशविधसंयमेषु मध्य इत्यर्थः, पृथिवीकायिकादारभ्येति, ये जीवाः पृथि: 20 व्यादिशरीरा द्वीन्द्रियादयश्च नवविधानां तेषामित्यर्थः, करणत्रयैरिति, कायवाङ्मनोभिरित्यर्थः, कृतकारितानुमतिभिरिति, करणकारणानुज्ञानैरित्यर्थः । संघट्टपरितापव्यापत्तिपरिहार इति, संघट्टः संरम्भः प्राणातिपातकरणसङ्कल्पः, प्राणिवधानुकूलान्योऽन्यगात्रसंहतीकरणं वा पाराश्चिकादिप्रायश्चित्तयोग्यम् । परितापस्समारम्भो मानसिकवाचिककायिकभेदः, तत्राद्यः परपीडाकरोच्चाटनादिनिबन्धनमंत्रादिध्यानरूपः, द्वितीयः परपरितापकरक्षुद्रविद्या- 25 दिपरावर्तनासंकल्पसूचकध्वनिरूपः, तृतीयोऽभिघाताय यष्टिमुष्ट्यादिकरणं तद्वर्जनमिति