________________
: ५३८ :
तत्त्वन्यायविभाकरे
[ प्रथमकिरणे
वैचित्र्याद्विकथादिदोषादसज्जन सम्पर्काद सत्क्रियासङ्गादनुस्रोतोगामित्वदोषात्सद्य एव मोक्षमार्गाद्धंशः स्यात् । तस्मादाप्राणिताद्गुरुकुलवासः श्रेयानिति भावः । गुरुकुले वसतां ह्याप्तोपदेशपालनाद्यथाशक्ति ज्ञानाभिवृद्धिद्वारा चरणं परिपूर्णं सम्पद्यते । ननु गुरुकुले वसतोऽपि कदाचित्तदविकलं न दृश्यत इति चेन्न ग्लानाद्यवस्थासु प्रत्युपेक्षणादि बाह्य सद5 नुष्ठानासद्भावेऽपि सद्गुरूपदेशश्रवण सञ्जनित संवेगेन तद्भावात् । ननु श्रमणधर्मे प्रक्रान्ते क्षमादीनामेवोत्कर्षणं युक्तं तद्रूपत्वात्तस्य किं गुरुकुलवासोत्कर्षणेन, आश्रयमात्रत्वात्तस्येति चेन्न गुरुकुल एव सम्यग्विनीततया स्थितानां यतीनां साधुधर्मतया सम्मतानां क्षमादीनां प्रकर्षतो निष्पत्तेः, तद्वासत्यागे चैतेषां सुष्ठु विशुद्धिर्न भवेदेव, इतरेतरस्नेह रोषविषादादीनां भावादेषणायाश्च बाधसम्भवादपरिशुद्धिरेव स्यात्, तथा न केवलं क्षमादीनामविशुद्धिरपि 10 तु गुरुकुलवासत्यागिनो नियमेन क्षान्त्याद्यभाव एव, कषायोदयात् । ततो ब्रह्मचर्यं न भवति तत्त्यागे तद्गुप्तिरपि न भवति, यतिजन सहायतायामेव ब्रह्मचर्यगुप्तित्वात्, ततः शेषाण्यपि नेति समस्तत्रतभङ्गः स्यात् । अत एवैकाकित्वे बहुतमदोषाः शास्त्रे श्रूयन्ते एगस्स कओ धम्मो ' इत्यादि । गुरुविषयकवैयावृत्त्येन जिनप्रवचनार्थप्रकाशन गच्छपालनादौ सहायकरणतः कर्मक्षयलक्षणं महाफलं गुरुकुलवासिनो भवति, अन्यथा सर्वदा 15 वैयावृश्यत पोज्ञानचारित्रविशुद्धयादीनां गुरुसंसर्ग साध्यगुणानां व्याघातादिप्राप्तेः । शोभनगुणान्तरायान्महान् दोषोऽपि स्यात्, तथा च तत्र वसन् गुर्वादेशं प्रतीक्षमाणस्समीपव त्यैव स्यात् । इत्थंभूत एव ज्ञानदर्शनचरणेषु स्थिरतरो भवति यतोऽष्टादशशीलाङ्गसहस्ररूपनिखिलगुणमूलभूतो गुरुकुलवासः, अतश्चरणकामी गुरुकुलेऽवश्यं वसेत् । नन्वागमे यतेराहारशुद्धिरेव मुख्यतश्चारित्रशुद्धिहेतुरुक्ता, पिण्डविशुद्धिश्च बहूनां मध्ये वसतां 20 दुष्करैव प्रतिभासते, इत्येकाकिनापि भूत्वा सैव विधेया, किं ज्ञानादिलाभेन, मूलभूतस्य चारित्रस्यैव मुख्यतया पालनीयत्वादिति चेन्न तस्य गुरुपारतंत्र्यस्यावर्जितत्वात्, द्वितीयसाध्व पेक्षाभावे लोभस्यातिदुर्जयत्वात्, प्रतिक्षणं परिवर्त्तमानपरिणामेनैकाकिना पिण्डविशुद्धेरपि पालयितुमशक्यत्वात्, अत एव गुरुवास परित्यागाच्छुद्धोञ्छशुद्धोपाश्रयवस्त्रपात्रादिपरिग्रहस्याप्यशोभनत्वमागमे प्रोक्तमिति । क्षमया क्रोधं निहन्यात् निहतक्रोधो मार्द्दवं धारयेत्, 25 परित्यक्तमदस्थान आर्जवं भावयेत्, भावदोषवर्जनेन निगूढदोषां मायामार्जवेन दूरीकृत्या -
6
१. यदि तु गच्छो गुरुश्च सर्वथा निजगुणविकलो भवेत्तदाऽऽगमोक्तेन विधिना त्यजनीयः, परं कालापेक्षया योऽन्यो विशिष्टतरस्तस्योपसम्पद् ग्राह्या न पुनः स्वतंत्रैः स्थातव्यम्, तस्माद्यावज्जीवं गुरोरन्तिकं सन्मार्गानुष्ठानमिच्छेत् । स एव हि परमार्थतो मनुष्यो यो यथाप्रतिज्ञातं निर्वाहयति तच्च सदा गुरोरन्तिकें व्यवस्थितेन सदनुष्टानरूपं समाधिमनुपालयता निर्वाह्यते तस्मात्सदा गुरुकुलवासोऽनुसर्त्तव्य इति बोध्यम् ॥