________________
onent ]
म्याकाशसमलते
: ५३७ :
बाह्येति । भावदोषो मूर्च्छा तृष्णा स्नेहो वा तत्परित्यजनं परिहारस्त्याग इत्यर्थः, तत्र विषयनियममाह बाह्येति, बाह्यो रजोहरणपात्रादिः स्थविरजिनकल्पयोग्य उपाधिः, आभ्यन्तरः क्रोधादिरतिदुस्त्यजः, शरीरमाभ्यन्तरमन्नपानादि बाह्यमेतद्विषया ये बाह्यदोषास्तत्परित्यजनं त्याग इत्यर्थः, रजोहरणादीनि धर्मसाधनानीत्येवं बुद्ध्या धारयेन्न तु रागादिप्रयुक्तः शोभाद्यर्थम् । तथाचायं त्यागो बाह्याभ्यन्तरवस्तुविषय आस्रवद्वाराणि संवृणोति, 5 अतस्सर्वात्मना त्यागिना भवितव्यमित्येष श्रमणधर्मः । ननु तपोऽन्तर्गतेऽनेषणीयस्य संसतस्य वान्नादेः कायकषायाणाश्च परित्यजनरूप उत्सर्गे त्यागस्यास्य ग्रहणादत्र तदुपादानमनर्थकमिति चेन्न तस्य नियतकालं सर्वोत्सर्गरूपत्वात् अस्य तु यथाशक्त्य नियतकाल - त्वेन विशेषात् । न च शौचेऽन्तर्भावसम्भव इति वाच्यमसन्निहिते कर्मोदयवशादुदितस्य गास्य निवृत्त्यात्मकत्वाच्छौचस्य, त्यागस्य तु सन्निहितेऽपि तन्निवृत्तिरूपत्वात् संयतस्य 10 स्वयोग्यज्ञानादिदानस्य वा त्यागरूपत्वादिति ॥
अथ त्यागोत्तरकालभाविनमा किञ्चन्यमाह
-
शरीरधर्मोपकरणादिषु मूर्च्छाराहित्यमाकिश्चन्यम् ॥
शरीरेति । नास्ति किञ्चन द्रव्यमस्येत्य किचनस्तस्य भाव आकिञ्चन्यमुपलक्षणत्वाच्छधर्मोपकरणादिष्वपि निर्ममत्वमित्यर्थः । मूर्च्छा हि ममेदमित्यभिसन्धिस्तत्सत्त्वे च 15 शरीरादीनवयवसन्निवेशशोभार्थं परिपालयेत्, ततश्चास्रवे पतेत्, अतो नश्वरा एते शरीरादयोऽशुचित्वङ्मांसादिपरिपूर्णा धर्मसाधनार्थमेवाहारादिनोपग्राह्या इति मूर्च्छतो निवर्त्तेत, तथा चोपात्तेष्वपि शरीरधर्मोपकरणादिषु ममेदमित्यभिसन्धिनिवृत्तिरा किञ्चन्यमिति भावः ॥
अथाssकिञ्चन्येऽवस्थितस्य ब्रह्मचर्यपरिपालनमावश्यकमिति तत्स्वरूपमाविष्करोति-व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो 20 ब्रह्मचर्यम् ॥
व्रतेति । व्रतमब्रह्मनिवृत्तिरूपं मैथुनवर्जनं तत्परिपालनाय गुरुकुले वासो ब्रह्मचर्य - मुच्यते, एतेन स्वातंत्र्येणावस्थानं प्रतिक्षिप्तम्, सदा गुर्वधीनेन गुरुनिर्देशावस्थायिना च भवितव्यम् । गुरुकुलवासात्मक ब्रह्मचर्यस्य फलान्तरमप्याह -- ज्ञानाभिवृद्धये कषायपरिपाकाय चेति, तत्र वासे ज्ञानवृद्धिर्भवति दर्शने चारित्रे च स्थैर्य भवति तथा 25 क्रोधादीनां परिणतेरुपशमः क्षयोपशमः क्षयो वा भवति । गुरुरहितस्य हि परिणाम
६८