________________
तस्वस्याप्रषिक्षाको
[ प्रामकिरणे भावः । सञ्च भूतनिहवामूतोद्भावनविपरीतकटुकसावधादिपूर्वोदितस्वरूपभिन्नं न परपीडा. कारि, सत्यासत्यदोषाख्यानप्रीतिविच्छेदकारिवचनभिन्नत्वात् । सभासु यन्न विगर्हितं नानालोचितवचनं प्रसन्नवचनं, श्रोतुरनादरवाक्यप्रयोगाच्छ्वणवैरस्यकारिभाषणभिन्नमव्यक्तवर्णपदलोपत्वादप्रत्ययकारित्वरितवचनभिन्नं प्रसन्नपदघटितं श्रुतिसुखं विनयसहितं निराकांक्षं 5 निश्चितार्थमनौद्धत्यप्रदीपकमुदारार्थ विद्वजनमनोरमं मायालोभाभ्यां क्रोधमानाभ्याश्चायुक्तं वचनं सूत्रमार्गानुसारि, अर्थिजनचित्तग्रहणसमर्थमात्मपरानुग्राहकं देशकालोपपन्नं प्रश्नव्याकरणमिति सत्यात्मको धर्मः। ननु भाषासमितावस्यान्तर्भाव इति चेन्न भाषासमितौ साध्वसाधुभाषाव्यवहारे हितमितार्थत्वात् , संयतो हि साध्वसाधुषु च भाषाव्यवहारं कुर्वन् हितं मितश्च ब्रूयात् , अन्यथा रागानर्थदण्डादिदोषानुषङ्गः स्यादिति समितिलक्षणमुक्तम् , 10 अत्र तु सन्तः प्रबजितास्तद्भक्ता वा तेषु साधु सत्यं ज्ञानचारित्रशिक्षणादिषु धर्मोपबृंहणार्थ बह्वपि वक्तव्यमित्यनुज्ञायत इति विशेषः ।। ___ चरणे पृथगुक्तस्यापि संयमस्य श्रमणानामसाधारणधर्मत्वप्रज्ञापनाय तदङ्गतया तद्व्याख्याति
इन्द्रियदमनं संयमः । तपस्तु पूर्वमेवोक्तम् ॥ 10 इन्द्रियेति । इन्द्रियानिन्द्रियनियम इत्यर्थः । पञ्चेन्द्रियाणां स्वस्वविषयेषु स्पर्शादिषु
लाम्पट्यपरिहारेण वर्त्तनं, प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहात्मकपश्चाभिनवकर्मबन्धहेतुभ्यो विनिवर्त्तनं क्रोधमानमायालोभानां जयो मनोवाकायानामशुभप्रवृत्तिनिरोध इति सप्तदशविधानां संयमानामत्र ग्रहणार्थं वोपलक्षणतयेन्द्रियदमनमित्युक्तम् । इन्द्रियाणां
पश्वानां दमनं स्वस्वविषयेभ्यो लोलुपत्वाभावापादनं संयम इत्यर्थः । उपलक्षकमिदमुपयु20 क्तानां सर्वेषाम् । अत एव भाषादिनिवृत्तिर्विशिष्टा कायादिप्रवृत्तिरात्यन्तिकस्त्रसस्थावरवधप्रतिषेध इति लक्षणान्युक्तानि, प्रथमस्य निवृत्तिप्रधानायां गुप्तौ द्वितीयस्य च समितावन्तर्भावापत्तेः, अन्त्यस्य च यथाख्यातविशुद्धचारित्रान्तर्भावापत्तेः पृथक्संयमग्रहणानर्थक्यं स्यात् । किन्त्वीर्यासमित्यादिषु वर्तमानस्य मुनेस्तत्पालनार्थमिन्द्रियादिनिवृत्तिरेव संयम
इति भावः । रसादिधातूनां कर्मणां वा सन्तपनहेतुस्तपो निर्जराव्याख्यायां व्याख्यातमेवेति 25 नात्र पुनरुच्यत इत्याह तपस्त्विति, चरणमध्ये पठितमपि श्रमणधर्मत्वप्रख्यापनायात्र पुन. रुक्तमपि न पौनरुतव भाक् । पूर्वमेवेति, निर्जरानिरूपणावसर एवेत्यर्थः ॥
अथ मुक्त्यपरपर्यायं त्यागमभिदधाति-- बाह्याभ्यन्तरोपधिशरीरानपानादिविषयकभावदोषपरित्यजनं त्यागः।।