________________
श्रमण धर्माः ]
न्यायप्रकाशसमलते कायवाझनसां शाव्यराहित्यमार्जवम् । भावदोषयुक्तो हि इहामुत्र चाकुशलाशुभफलं कर्मोपचिनोति ॥
कायेति । अन्यनिमित्तं कुब्जादिवेषभूविकारादीनामकरणादुपहासादिहेतोरन्यदेशादिभाषया भाषणपरित्यागात् परविप्रतारणाद्यचिन्तनाच्च जीवो धर्मस्याराधको भवति, विशुद्धाध्यवसायत्वेन जन्मान्तरेऽपि तदवाप्तेः, तस्मान्मायावक्रतापरित्याग आर्जवमिति भावः। 5 मायावी हि सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः कपटपटप्रच्छादितकायादिक्रियस्सुहदेऽपि द्रुह्यति । शाठ्यकृत्यमाह अकुशलेति, अकुशलं पापं तदपि बद्धं कदाचित्कुशलफलतया परिणमत इत्यशुभफलमित्युक्तम् ॥
अथ लोभप्रतिद्वन्द्वि शौचं स्वरूपयतिकालुष्यविरहः शौचम् । तद् द्रव्यभावभेदाद् द्विधा, शास्त्रीयविधिना 10 यतिजनशरीरगतमहाव्रणादिक्षालनमाद्यम् । रजोहरणादिष्वपि ममताविरहो द्वितीयम् । ममत्वमत्र मनःकालुष्यम् ॥ ... कालुष्येति । कालुष्यमशुचिलोंभरूपा, सचित्ताचित्तमिश्रवस्तुविषयाभिष्वङ्गलक्षणलोभाद्धि क्रोधमानमायाहिंसानृतस्तेयाब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः, ततस्तद्विरहः शौचमित्यर्थः । तद्विभजते तदिति, शौचमित्यर्थः । शास्त्रीयविधिनेति, प्रासुकैष. 15 णीयेन जलादिनेति भावः । क्षालनमिति, निर्लेपनिर्गन्धतापादनमित्यर्थः। द्वितीय भेदमाह रजोहरणादिष्वपीति, आदिना मुखवत्रिकाचोलपट्टकपात्रादयो ग्राह्याः, अत्र कल्मषरूपममत्वस्य लोभरूपतया मनोविषयत्वादाह ममत्वमिति, ननु मनोगुप्तौ शौचस्यान्तर्भावात्पृथग्ग्रहणमनर्थकमिति चेन्न मनोगुप्तौ मानसपरिस्पन्दप्रतिषेधादत्र तु परकीयेषु वस्तुष्वनिष्टप्रणिधानोपरमस्य विधानात् । न चाकिश्चन्येऽन्तर्भाव इति वाच्यम् , तस्य निर्ममत्वप्रधानत्वात् , स्वश- 20 रीरादिषु संस्कारायपोहार्थमाकिञ्चन्यमिष्यते तेन द्रव्यशौचासङ्ग्रहोऽपि स्यादिति ॥ अथ सत्यं निरूपयति
यथावस्थितार्थप्रतिपत्तिकरं स्वपरहितं वचः सत्यम् ॥ __ यथावस्थितेति । यथावस्थितस्यानन्तधर्मात्मकस्यार्थजातस्य तथैव प्रतिपत्तिकर बोधकं स्वस्मै परस्मै च हितं वचनं सत्यमित्यर्थः । अनेकपर्यायकलापभाजामर्थानां हि यथावस्थि- 25 तविवक्षितपर्यायप्रतिपादनं सत्यम्, एतदेव जीवाजीवेभ्यो हितं यद्यथार्थप्रतिपादन मिति