________________
श्रमणधर्माः ] .
न्यायप्रकाशसमलते भगवता द्रव्यक्षेत्रकालभवभावापेक्षः कर्मणामुदयः स्वकृतश्च कर्मानुभवितव्यमवश्यन्तया निकाचितं तपसा वा क्षपणीयमिति भावः । क्रोधादिष्विति, कषायपरिणतो विद्वेषी कर्म बध्नाति परं वा निहन्ति, अतः प्राणातिपातनिवृत्त्यात्मकव्रतभङ्गः स्यात् , तथा गुरूनधिक्षिपेत् । अतो ज्ञानादिनिर्वाणसाधनप्रहाणमवश्यम्भावि, क्रुद्धो वा प्रभ्रष्टस्मृतिभ्रषाऽपि भाषेत विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात्परपाखण्डिनीषु ब्रह्मवतभङ्गमप्यासेवेत, तथा 5 प्रद्विष्टस्सहायबुद्धया गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् उत्तरगुणभङ्गमप्याचरेदिति भावः। आत्मनिन्देति, आत्मनो निजस्य या निन्दा परप्रयुक्ता क्रोधादिनिमित्ता तस्याः श्रवणेऽपि स्वस्मिन् सदसत्त्वचिन्तयाऽविकृतमनस्कत्वं क्रोधादीनामुदयनिरोध उदितस्य वा विवेकबलेन नैष्फल्यापादनं क्षमोपकारीत्यर्थः । क्रोधादिनिमित्तानां स्वस्मिन् भावे हि किमत्रासौ मिथ्या ब्रवीति ? विद्यन्त एव मय्येते दोषा इति क्षमितव्यम्, अभावे 10 च न सन्त्येव मयि दोषा अज्ञात्वैवैतान् दोषानयमुपक्षिपति, एवश्वात्मानं निरपराधिनमवेत्य सुतरां क्षमितव्यमिति भावः । क्षमैवेति, आत्मनः क्षमैव मूलोत्तरगुणप्रवर्धकोsसाधारणो धर्म इति बुद्ध्या प्राप्तेऽपि क्रोधादिनिमित्ते क्षमितव्यमिति भावः। ईदृशीनां भावनानां सत्त्वेऽवश्यम्भाविकी क्षमेत्याह क्षमायामुपकारिकेति, उपकारेण क्षान्तिरपकारेण क्षान्तिर्विपाकक्षान्तिर्वचनात्क्षान्तिर्धर्मात्क्षान्तिरिति पञ्चधा क्षान्तिर्भाव्या ।
अथ मार्दवं स्वरूपयति--
गर्वपराङ्मुखस्य श्रेष्ठेष्वभ्युत्थानादिभिर्विनयाचरणं मार्दवम् । जातिरूपैश्वर्यकुलतप:श्रुतलाभवीर्येष्वहम्भावो मार्दवविरोधी अतस्ततो निवर्तेत ॥
गर्वेति । चित्तपरिणामविशेषो गर्वस्तस्मात्पराङ्मुखस्य तद्विधुरस्य श्रेष्ठेष्वाचार्यादिषु 20 यथायोग्यमभ्युत्थानासनादिभिर्विनयाचरणं नीचैर्वर्त्तनं मार्दवं मदनिग्रह इत्यर्थः । मदो हि जात्यादिप्रयुक्तोऽहम्भात्रो यद्विजम्भणादेते जात्यादिमदाः प्रादुर्भवन्ति यस्य निग्रह उदयनिरोध उदितस्य वा निष्फलत्वापादनम् , तद्धाते चावश्यम्भावी मदविनाश इति भावः । मार्दवे सति हि जीवोऽनहङ्कारित्वं प्राप्नोति तेन सकलभव्यजनमनस्सन्तोषहेतुत्वात्कोमलो द्रव्यतो भावतश्च सरलो भवति तादृशस्सन्नष्टौ मदस्थानानि क्षपयतीति, तत्र मार्दवविरोधभूतान्यष्टौ 25 मदस्थानान्याह जातीति, पितुरन्वयो जातिस्ततो विख्याततमवंशतया गर्वमुद्वहति जन्तुः, विशिष्टजात्युद्भवोऽहमिति । विदितकर्मपरिणामस्तु जातिमदं स्वकृतकर्मफलभाक्त्वाजीव उच्चावचनानाजातीः प्राप्नोतीत्यश्रेयस्कारतया निरुणद्धि । लावण्ययुक्तःकायावयवानां विशि
15