________________
तत्त्वन्यायविभाकरे
[प्रथमकिरण क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाऽऽकिश्चन्यब्रह्मचर्याणि श्रमणधर्माः॥
क्षमेति । अनगारा हि सर्वावस्थां क्षमन्ते सकलमदस्थाननिग्रहिणः शाट्यरहितास्सन्तोषामृततृप्तास्सत्यवादिनस्संयमिनस्तपस्विनो यथावत्यागिनः कनकादिकिञ्चनरहिता. 5 स्सर्वप्रकारं ब्रह्म बिभ्रति न गृहिणोऽत एते क्षमादयः श्रमणधर्माः कथ्यन्ते । यो हि
सर्पसमः परकृताश्रयनिवासात् , गिरिसमः परीषहोपसर्गनिष्प्रकम्पत्वात् , ज्वलनसमस्तपस्तेजोमयत्वात् , सागरसमो गम्भीरत्वात् , ज्ञानादिरत्नाकरत्वात्स्वमर्यादानतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात् , तरुगणसमः सुखदुःखयोरदर्शितविकारत्वात् , भ्रमर
समोऽनियतवृत्तित्वात् , मृगसमस्संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात् , 10 जलरुहसमः कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्वं वृत्तेः, रविसमः धर्मा
स्तिकायादिलोकमधिकृत्याविशेषेण प्रकाशकत्वात् पवनसमश्च सर्वत्राप्रतिबद्धत्वात् , एवंभूत. स्य श्रमणस्यैते धर्मा इति भावः ।।
तत्र क्षमास्वरूपमाह
सति सामर्थ्य सहनशीलता क्षमा । सापराधिन्यप्युपकारबुद्धिरव15 श्यम्भावित्वमतिरपायेषु, क्रोधादिषु दुष्टफलकत्वज्ञानमात्मनिन्दाभवणेऽप्यविकृतमनस्कत्वं क्षमैवात्मधर्म इति बुद्धिश्च क्षमायामुपकारिका ॥
सतीति । प्रतीकारानुष्ठानेऽशक्तस्य दुर्मेधसो या सहिष्णुता तद्वयावर्त्तनाय सति सामर्थ्य इति, सहनशीलतेति, क्रोधोत्पत्तिनिमित्तानां सन्निधाने कालुष्याभावः उदितस्य
वा क्रोधस्य नैष्फल्यापादनं विवेकादिभिः सा क्षमेति भावः । तथा च प्रतीकारानुष्ठाने शक्त20 स्यापि सहनपरिणामविशेषः अमेति भावः । तस्या उत्तेजकानाह सापराधिनीति, आत्मनि
परप्रयुक्तं क्रोधनिमित्तं पश्यन्नपि निर्विवेकोऽयमेष एवास्य स्वभावो मूढत्वाद्यदेवं प्रयुङ्क्ते प्रत्यक्षं परोक्षं वाऽऽक्रोशवचनादिकम् , यद्वाऽयं मयि क्रोधनिमित्तं नोद्भावयेत्तदा मे कथं सहनशीलताजनितकर्मक्षयात्मको लाभः स्यादतोऽत्रायं महानुपकारीत्येवं विचिन्तयता
क्षमितव्यमेवेति भावः । निरपराधिन्युपकारबुद्धिर्न क्षमाया महत्त्वापादिका किन्तु सापरा25 धिनीति सूचयितुमपि शब्दः । अवश्यम्भावित्वेति, अपायेषु परप्रयुक्तप्रत्यक्षपरोक्षाकोशता.
डनमारणधर्मादिषु अवश्यम्भावित्वमतिः जन्मान्तरोपात्तस्य कर्मणो विपाकोऽयमवश्यम्भावी, यदाक्रोशताडनादिकं विदधाति केवलं निमित्तमात्रमेव परः कर्मोदयस्य । आख्यातो हि