________________
श्रमणधर्माः ]
म्यायप्रकाशसमलङ्कृते
: ५३१ :
प्राकमेषणीयं कल्पनीयच पानान्नमानीयालोचनापूर्वं गुरवे निवेद्यानुज्ञातो गुरुणा मण्डल्यामेकको वाऽश्नीयात्, उपलक्षणमेतत्, यत्किञ्चिदौघिकौपग्रहिकभेदभिन्नमुपकरणं धर्मसाधनं तत्सर्वं गुरुणाऽनुज्ञातं परिभोक्तव्यम् । एवं विदधानो नातिक्रामत्यस्तेयत्रतमिति पञ्चमी । चतुर्थव्रतस्य स्त्रीषण्डपशुमद्वेश्मासनकुड्यान्तरोज्झनं, सरागस्त्री कथात्यागः प्राप्रतस्मृतिवर्जनम्, atri मनोहराङ्गावलोकन स्वाङ्ग संस्कार परिवर्जनं, प्रणीतात्यशनत्याग इति पञ्च भावनाः । देवमा- 5 नुषभेदास्स चित्ताः स्त्रियः प्रस्तरलेप्यचित्रकर्मादिनिमित्ताश्चाचित्ताः नपुंसकवेदवर्त्तिनो महामोहकर्माणः पुंस्त्रीसेवनाभिरताः षण्डाः पशवः प्रसिद्धास्तत्संसक्तवसत्यासने, अन्तरस्थे कुड्यादौ यत्र मोहनादिशब्दः श्रूयते तादृशं स्थानञ्च ब्रह्मचर्यभङ्गभयेन त्याज्यमिति प्रथमा । मोहोदयानुकूलवनिताकथात्यागः, तादृशी हि रागानुबन्धिनी शृङ्गारानुविद्धा कथा चित्तविक्षेपकारिणीति तामवश्यं त्यजेदिति द्वितीया । प्रव्रज्याग्रहणात्पूर्वं गृहस्थावस्थानुभूतकामिनीनिधु- 10 वनस्मरणस्य कामाग्निसन्दीपकत्वात्तद्वर्जनं तृतीया । अपूर्वविस्मयरसनिर्भरतयाऽऽपातरSatara त्रियमुखनयनस्तनजघनादीनि सप्रेम विलोकयतो निजाङ्गसंस्कारानुष्ठानपरायण. स्य च ब्रह्मचर्यविघातोऽवश्यम्भावीति तत्परित्यजनं चतुर्थी । स्निग्धमधुरादिरसवत्पदार्थान् रूक्षभैक्ष्यानप्याकण्ठमभ्यवहर मे ब्रह्मक्षतिः शरीरपीडा च भवतीति तद्वर्जनं पञ्चमी । पञ्चमव्रतस्य तु पश्चानामिन्द्रियार्थानां मनोज्ञानां स्पर्शरसगन्धवर्णशब्दानां प्राप्तौ स्नेहवर्जनं, 15 अमनोज्ञानां प्राप्तौ च द्वेषवर्जनमिति पञ्च भावनाः । अभिष्वङ्गी हि मनोज्ञानभिलषेदमनोज्ञांश्च विद्विष्यात् । मध्यस्थस्तु मूर्च्छारहितत्वान्न कचित्प्रीतिमप्रीति वा करोति । एतान्येव महात्रतानि शेषधर्माणां मूलभूतत्वात् मूलगुणाभिधेयानि, चरणसप्ततेरपि मूलगुणभूतानि, रात्रिभो जैन विरमणन्तु व्रतं न तु महाव्रतमिति न तस्यात्र निरूपणमिति ॥
अथ संवरापादनसामर्थ्यनिमित्तमुत्तमगुणप्रकर्षमनगाराणां धर्ममाह
१. चतुर्विधस्याशन पान खादिम स्वादिमभेदभिन्नस्याहारस्य सर्वथा परिवर्जनं रात्राविति रात्रिभोजनविरमणम् । स मूलगुणः संयतस्यैव देशविरतस्य तूत्तरगुणस्तपोवदा हारविरमणरूपत्वात्, तप एव वा तत्, चतुर्थीदिवदाहारत्यागरूपत्वात्, समित्या दिवन्महाव्रतसंरक्षणात्मकत्वादुत्तरगुणः । न चैवं व्रतधारिणोऽपि न तन्मूलगुणरूपं भवतीति वाच्यम् । समस्तत्रत संरक्षणेनात्यन्तोपकारित्वेन व्रतिनो मूलगुणत्वात्, अन्यथा हि मूलगुणा महाव्रतादयो न परिपूरिमतामासादयन्ति, रात्रौ भिक्षार्थमचक्षुर्विषये पर्यटनप्रसङ्गेन वह्निप्रदीपादिसंस्पर्शनात्, दुष्टाहार ग्रहणादेश्च प्राणातिपातप्रसङ्गात्, अन्धकारवशेन च पतितहिरण्यादिद्रविणग्रहणादिप्रसङ्गात्, योषित्परिभोगसम्भवाच्च । न चैवं तपःप्रभृतीनामपि मूलगुणत्वप्रसङ्गो मूलगुणोपकारित्वाविशेषादिति वाच्यम् रात्रिभोजनविरमणवदस्यात्यन्तोपकारित्वाभावात् । यथाहि प्राणातिपातादीनां पञ्चानामेकतराभावे शेषाणामभावान्मूलगुणत्वं तथा रात्रिभोजनविरमणस्याप्यभावे सर्वव्रताभावादत्यन्तोपकारित्वान्मूलगुणत्वम् । देशविरतस्य तु उत्तरगुणत्वमारम्भजप्राणातिपातादस्यानिवृत्तत्वादिति भाव्यम् ॥
20