________________
: ५३० :
तस्वन्यायविभाकरे
[ प्रथम किरणे
हारेण धर्मध्यान उपयोगो मनस्तमितिः, वधेन बन्धेन परितापेन नृशंसं न किञ्चन कर्म कदापि मनसाऽल्पमपि ध्यातव्यमनेन प्रकारेण मनस्समितियोगेन जीवश्चित्तसत्प्रवृत्तिलक्षणव्यापारेण वासितो भवति । एवं वचसापि प्राणिनां परितापादिकारिणा न भणितव्यम् । किन्तु साधुना तत्र समितेन भवितव्यम् । उपधिप्रभृतीनामागमानुसारेण निरीक्षणप्रमा5 र्जनरूपाऽऽदानसमितिः । संयतेन हि सदा प्रत्युपेक्षण स्फोटनाभ्यां प्रमार्जनया च भाजनवस्त्रादिकं निक्षेप्तव्यं ग्रहीतव्यश्च । सनियम माहारादीनां प्रत्यवेक्षणरूपा पञ्चमी भावना, एभिः पञ्चभिर्भावनाविशेषैरहिंसापालन हेतुभिस्सदा स्वस्थ चित्तेनासे वितमहिंसालक्षणं तमनाश्रवस्योपायः । द्वितीयत्रतस्य क्रोधलोभ भीरुत्व हास्य प्रत्याख्यानानि आलोच्य भाषणमिति पश्च भावनाः । क्रुद्धः क्रोधतरलितमनस्कतया मिथ्या ब्रूयात्, लोभपरवशश्चार्थाकां10 क्षया, भयार्त्तः प्राणादिरक्षणेच्छया, हसन् कौतुकेनेति तत्प्रत्याख्यानानि चतस्रो भावनाः, सम्यग्ज्ञानपूर्वकं पर्यालोच्य मिध्या मा भूदिति मोहतिरस्कारद्वारेण भाषणं पञ्चमी भावना । तृतीयव्रतस्य विचिन्त्यावग्रहयाचना, पुनः पुनरवग्रहयाचना, अवग्रहधारणम्, साधर्मिकेभ्योSवग्रहयाचनमनुज्ञापितपानान्नग्रहणमिति पश्च भावनाः, तत्र देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदभिन्नावग्रहेषु पूर्व: पूर्वो बाध्य उत्तर उत्तरो बाधक इति सञ्चिन्त्य यः स्वामी 15 स एव याच्योऽस्वामियाचने तु दोषबाहुल्यमुक्तमित्येवं विचिन्त्यावग्रहयाचनं प्रथमा । सकृद्दत्तेऽप्यवग्रहे स्वामिना भूयोऽवग्रहयाचनं कार्यं, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थासु मूत्रपुरीषोत्सर्ग पात्र करचरणप्रक्षालनस्थानानि दातृचित्तपीडापरिहारार्थं याचनीयानि, एवं याचामाचरन्नादत्तादानजनितेनागसा स्पृश्यत इति द्वितीया । एतावन्मात्रपरिमाणमेव क्षेत्रादि ममोपयोगि नाधिकमित्यवग्रहस्य धारणमिति तृतीया । एवमवग्रहधारणे हि तदभ्यन्तरवर्त्तिनी - 20 मूर्ध्वस्थानादिक्रियामासेवमानो न दातुरुपरोधकारी भवति, याचाकाल एवावग्रहानवधारणे विपरिणतिरपि दातुश्चेतसि स्यात्, आत्मनोऽपि चादत्तपरिभोगजनितः कर्मबन्धः स्यादिति । साधुभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽवग्रहों मासादिकालमानेन पञ्चकोशा दिक्षेत्ररूपो याच्यः, तदनुज्ञानाद्धि तत्रासितव्यम्, तदनुज्ञातं हि तत्रोपाश्रयादि समस्तं गृह्णीयात्, अन्यथा स्तेयं स्यादिति चतुर्थी । अनुज्ञया स्वीकृतान्नपानयोरभ्यवहारः, सूत्रोक्तप्रकारेण
१. मृषावादविर तिलक्षणस्य संवरस्य गुरुसमीपे प्रयोजनमाकर्ण्य हेयोपादेयवचनैदम्पर्यं सम्यग्ज्ञात्वा विकल्पव्याकुलतारहितो वचनचापल्यं विहायार्थतः कटु शब्दतः परुषं साहसमतर्कितं परस्य जन्तोः पीडाकरं सावद्यं वचनं न भाषेत । किन्तु सद्भूतार्थं पथ्यं परिमिताक्षरं प्रतिपाद्यविवक्षितार्थं प्रतीतिजनकं वचनदोषरहितं उपपत्तिभिरबाधितं पूर्वं बुद्ध्या पर्यालोचितमवसरे भाषेत । एवं सति संगतकरचरणनयनवदनशूरः सत्यार्जवसम्पन्नो भवति ॥