________________
मंचालि
म्यांवप्रकाश सचित्तेति । मूर्छा लोभपरिणतिभेदः, ययाऽऽत्मा मोहमुपनीयते विवेकात्प्रच्याव्यते च, प्रच्युतविवेकश्च प्रतिविशिष्टलोभकषायोपरागादयुक्तप्रवृत्तिर्न किञ्चित्कार्यमकार्य वा जानाति, मूछेयं सर्वदोषप्रसूः, ममेदमिति सति संकल्पे हि रक्षणादयस्तस्य संजायन्ते, तत्र च हिंसाऽवश्यंभाविनी तदर्थमनृतं जल्पति चौर्यश्चाचरति कचिन्मैथुने कर्मण्यपि प्रवर्तते तत्प्रभवाश्च नरकादिषु दुःखप्रकारा अनुभवाः, सा च मूर्छा एकद्वित्रिचतुःपञ्चेन्द्रि- 5 येषु चेतनावत्सु, आभ्यन्तरेषु क्रोधमानमायालोभमिथ्यादर्शनहास्यरत्यरतिभयशोकजुगुप्सावेदाख्येषु, बाह्येषु वास्तुक्षेत्रधनधान्यशय्यासनयानकुप्यद्विचतुष्पाद्भाण्डाख्येषु द्रव्येषु भवति क्रोधादिषु परिग्रहहेतुत्वात्तत्प्रयुक्तस्वगौरवरक्षणाय तत्रानुरागाद्वा परेषु च ममेद. मित्यज्ञानविषयत्वान्मूर्छा भवति । तथा च सचित्ता योषिदादयोऽचित्ता आहारादयो मिश्रा मूषणविभूषितभामिनीप्रभृतयः, एवम्भूतेषु द्रव्येषु या मूर्छा परिणामविशेषः स परिग्रहः। 10 यद्यपि वातपित्तश्लेष्मणामन्यतमस्य दोषस्य प्रकोपादुपजायमानपरिणामविशेषोऽपि मूछी तथाप्यत्र सचित्तादिविषयिणी परिणतिर्लाह्या । प्रमादसहकारेणेत्यस्यानुवृत्त्या च राग. द्वेषमोहमूला हिंसावन्मूछेति लभ्यते, तेन तद्रहितस्याप्रमत्तकायमनोवाग्व्यापारस्य संयमोपकरणादिषूपधिशय्याहारशरीरेष्वागमानुज्ञातेषु न मूर्च्छति विज्ञेयम् , अन्यथा शरीराहारशिष्यादिपरिग्रहस्यापि मूर्छात्वापत्तेः धर्मोपष्टम्भकत्वस्य त्वत्रापि समानत्वात् । न च 15 यथाऽऽध्यात्मिकेऽपि रागादावात्मपरिणामे सङ्गो मूर्छा तथा ज्ञानदर्शनचारित्रेषु सङ्गो मूर्छा स्यादिति वाच्यम् , आत्मस्वभावानतिवृत्तेः, रागादयो हि कर्मोदयतंत्रा इत्यनात्मस्वभावा न ज्ञानादयस्तथा, आत्मस्वभावभूतत्वात् । ततश्चेति, निरुक्तपरिप्रहादित्यर्थः, तथा विरतिरिति, सर्वप्रकारेण यावज्जीवं ज्ञानश्रद्धानपूर्विका विरतिरित्यर्थः । पञ्चविधस्यास्य महाव्रतस्य दाढर्यापादनार्थमेकैकस्य पश्च पञ्च भावना भवन्ति, भावनाभि- 20 ईनभ्यस्यमानानि महाव्रतान्यनभ्यस्यमानविद्यावन्मलीमसानि भवन्ति । तत्राहिंसायास्तावदीर्यासमितिर्मनस्समितिर्वचनसमितिरादानसमितिरालोकितपानभोजनमिति पञ्च भावनाः । स्वपरबाधापरिहारफलिका पुरतो युगमात्रनिरीक्षणपूर्विका सोपयोगिनो गमनविषयिणी प्रवृत्तिरीर्यासमितिः । गमनक्रियायामसमितो हि प्राणिनः पादेन ताडयेत्, अन्यत्र पातयेत्तथा परितापयेत् । तस्मादीर्यासमितेनावश्यंभवितव्यम् । आतरौद्रध्यानपरि- 25
१. ईर्यायामकृतेऽवधाने प्राणिनोऽभिहन्यात् पादेन ताडयदन्यत्र प्राणिनः पातयेत् पीडामुत्पादयेजोविताद्यपरोपयेत् तथा च कर्मोपादानत्वात्तत्र समितेन भाव्यम्, तथा चेर्यासमित्या भावितान्तरात्मा जीवो मालिन्यमात्ररहितत्वात् विशुद्धयमानपरिणामत्वादक्षतचारित्रत्वान्मृषावादाद्युपरमान्मोक्षसाधको भवतीत्येवं सर्वत्र भावनीयम् ॥