________________
: ५२८ :
तवयायविभाकरे
20
अथ चतुर्थं व्रतमभिदधाति ।।
[ प्रथमकिरण
औदारिकवैक्रियशरीरविलक्षणसंयोगादिजन्यविषयानुभवनमब्रह्म
तस्मात्तथा विरतिस्तुर्यं व्रतम् ॥
औदारिकेति । तिर्यङ्मनुष्याणां देवानां यच्छरीरद्वयं तस्य योऽयं विलक्षणसंयोगः 5 स्त्रीपुंसंसर्गविशेषस्सम्पर्क:, आदिना संकल्पनामग्रहणदर्शनादीनां ग्रहणम्, तज्जन्यं यद्विषयानुभवनं तदब्रह्म, पचशरीरेषु औदारिकवैक्रियशरीरावच्छेदेनैवाब्रह्मसम्भवो नान्यशरीरावच्छेदेनेति सूचनाय तदुक्ति: । तदिदमब्रह्म द्रव्यादितो निर्जीवप्रतिमादिद्रव्येषु सजीवपुरुषाङ्गनाशरीरेषूर्ध्वाधस्तिर्यग्लोकेषु दिवा वा रात्रौ वा क्रोधमानमायालोभेभ्यः सम्भवति, न च चेतनस्याचेतनेन सह विलक्षणसंयोगो न मुख्यतया मैथुन सुखानुभवनहेतुरपि तूपचारत 10 इति वाच्यम्, मुख्यफलाभावप्रसङ्गात्, मुख्य सिंहगत क्रौर्यशौर्या देर्माणवकेऽप्रवृत्तिवत् दृश्यते च तत्र मुख्यं फलमतो नोपचारः । आसन्नदेशस्थित भ्रातृभगिन्योः शरीरसंयोगस्याबह्मानुकूलत्वाभावेन तद्वद्यावृत्त्यै विलक्षणसंयोगेत्युक्तम्, तथा च वेदोदयप्रयुक्त विलक्षण संयोगश्चित्तपरिणाम विशेषद्वारको येन विषयसुखमनुभूयते तदब्रह्मेति फलितार्थः । ईदृशाब्रह्मगोब्रह्मचर्यं रौद्रं प्रमादोऽनन्तसंसारो लोकानादरोऽधर्म " इहपरलोकापायो दर्शनचारित्र15 मोहनीयबन्धोऽनन्तप्राणिघातश्च फलम् । तथा चैवंविधादब्रह्मणो योगकरणत्रयेणाष्टादशधा ज्ञानश्रद्धानपूर्वकं विरमणं चतुर्थ व्रतमित्यर्थः । औदारिकापेक्षया स्वयं न करोति मनसा वाचा कायेन वा, नान्येन कारयति मनसा वाचा कायेन वा कुर्वन्तं वा नानुमोदते मनसा वाचा कायेन वेति नवविधः, एवं वैक्रियापेक्षयापीति ॥
अथ पञ्चमं व्रतमाचष्टे
सचित्ताचित्तमिश्रेषु द्रव्येषु मूर्च्छा परिग्रहस्ततश्च तथा विरतिः पञ्चमं व्रतम् ॥
१. मूलतोऽब्रह्म द्विविधमौदारिकं दिव्यच, आद्यं तिर्यङ्मनुष्याणामपरं भवनवास्यादीनाम् । तद्विविधमपि मनोवाक्कायैः करणकारणानुमोदनैश्च यथायथमष्टादशविधं विज्ञेयम् । तच्च देवमनुजासुरैरभिलषणीयं कलङ्कनिमित्तत्वेन दुर्मोचनत्वेन च पङ्कपनकपाशजालसन्निभं स्त्रीपुंनपुंसकवेदचिह्नं तपस्संयमब्रह्मचर्यविघ्नकरं बहुप्रमादमूलं कुपुरुषैरासेव्यं जन्मजर | मरणशोक हेतुकं दर्शनचारित्रमोहस्य निमित्तमवसेयम् । ब्रह्मचर्यन्तु उत्तमतपोनियमज्ञानदर्शनचारित्र सम्यक्त्वविनयमूलं यमनियमगुणप्रधानयुक्तं व्रतेषु प्रभाववत् प्रशस्त गम्भीरस्थिरान्तःकरणं सुखहेतुः सिद्धगतिनिलयं मुनिवरप्रतिपालितं पञ्चमहाव्रतमध्ये सुष्ठु रक्षितं प्रधानमिति ॥