________________
तत]
म्यायप्रकाशलमलङ्कृतै
: ५२७ ।
कश्चिस्वरयन् कञ्चन दिवसेऽपि रात्रिर्जातेति वदति परिणतप्राये वासरे । अद्धाद्धामिश्रितं अद्धाद्धा नाम दिवसस्य रात्रेर्वा एकदेशः, यथा प्रथमपौरुष्यामेव त्वरयमाणः कञ्चन वक्ति शीघ्रो भव मध्याह्नो जात इति । असत्यमृषारूपं वचनन्तु आमंत्रणाज्ञापनयाचनप्रच्छनप्रज्ञापनप्रत्याख्यानेच्छानुलोमानभिगृहीताभिगृहीत संशयकरणव्याकृताव्याकृतभेदाद्वादशविधम् । तत्रमंत्रणं यथा हे देवदत्त इत्यादि वचनमिदं पूर्वोदितसत्यादिभेदत्रयविलक्षणत्वान्न 5 सत्यादिरूपमपि तु व्यवहारप्रवृत्तिहेतुत्वादसत्यामृषारूपम् । आज्ञापनं यथा इदं कुर्वित्यादि, इदमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीतेरदुष्टविवक्षाप्रसूतत्वादसत्यामृषारूपमेवमन्यत्रापि भाव्यम् । याचनं यथा भिक्षां प्रयच्छेति । प्रच्छनं यथा अविज्ञातस्य सन्दिग्धस्य वाऽर्थस्य परिज्ञानाय तद्विदुः कथमेतदिति प्रच्छनम् । प्रज्ञापनं यथा हिंसाप्रवृत्तो दुःखितादिर्भवतीति । प्रत्याख्यानं याचमानस्य प्रतिषेधवचनम् । इच्छानुलोमं 10 यथा केनचित्कश्चिदुक्तसाधुसकाशं गच्छाम इति स आह शोभनमिति तादृग्वचनम् । अनभिगृहीतं प्रतिनियतार्थानवधारणानुकूलं वचः, यथा बहुषु कार्येषूपस्थितेषु यत्ते प्रतिभासते तत्कुर्विति वचनम् । अभिगृहीतं यथा तत्रैवैवेदमिदानीं कर्त्तव्यमिति वचनम् । यद्वा यदर्थमभिगृह्य डित्यादिवद्वचनमनभिगृहीतं घटादिवद्वचनमभिगृहीतम् । संशयकरणं यथा नानार्थसाधारणं सैन्धवमानयेत्यादिवचनम् । व्याकृतं प्रकटार्थ यथा देवदत्तस्यैष भ्राते- 15 त्यादिरूपम् । अव्याकृतमप्रकटार्थ बालकादीनां थपनिकेत्यादिवचनम् । एवं चतुर्विधेषु वचनेषु सम्यगवगतेषु प्रथमचतुर्थौ भेदौ वाच्यौ न द्वितीयतृतीयाविति ॥
क्रमप्राप्तं तृतीयं व्रतमाख्याति-—
स्वाम्याद्यदत्तवस्तुपरिग्रहणं स्तेयं तस्मात्तथा विरतिस्तृतीयं व्रतम् ॥
स्वाम्यादीति । स्वामिजीवतीर्थकर गुरुभिरदत्तस्य वस्तुन आदानं प्रमत्तयोगात्स्तेय- 20 मुच्यते, सर्वप्रकारेण यावज्जीवं तस्माद्विनिवृत्तिस्तृतीयमस्तेयत्रतमित्यर्थः । तृणोपलकाष्ठादिकं तत्स्वामिनाऽदत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं यथा प्रव्रज्यापरिणामविकलो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते । यत्तीर्थकरैः प्रतिषिद्धमाघाकर्मादि गृह्यते तत्तीर्थकरादत्तम् । आधाकर्मादिदोषरहितं स्वामिना दत्तं गुरूनननुज्ञाप्य गृहीतं तद्गुर्वदत्तमिति तदेतत्सर्वं स्तेयमुच्यते तदेतच्चतुर्विधस्य ग्रहणपरिणामाभावोऽस्तेयमिति भावः । अत्राष्टविधकर्मादानस्य 25 स्तेयत्वव्युदासाय स्वाम्यादीत्युक्तम् । न च शब्दादिविषय रथ्याद्वारादीन्याददानस्य साधोरस्ते यत्वप्रसङ्ग इति वाच्यम् प्रमत्तयोगादिति पूरणात्, यत्नवतो ह्यप्रमत्तस्य ज्ञानिनशास्त्रदृष्ट्या शब्दादीनामादानेऽपि विरतस्यास्तेयत्वप्रसिद्धेः, सामान्यतस्तेषां मुक्तत्वेन दत्तमेव वा सर्व न सौ पिहितादिद्वारादीन् प्रविशतीति भावः ॥