________________
10
- मुक्त्युपायनिरूपणम् । विघ्नात्यन्ताभावप्रयुक्तैवेति चेन्न विनिगमनाविरहात् , न च मङ्गलादर्शनमेव विनिगमकमिति वाच्यम् । पर्वते धूमाद्वयनुमानानुपपत्तेर्वह्रयदर्शनात् । न चान्यत्र धूमसत्त्वेवह्नदृष्टत्वादत्र सोऽनुमीयत इति वाच्यम् तुल्यत्वाद् दृश्यते ह्यन्यत्र निर्विघ्नसमाप्तिसत्त्वे मङ्गलमपि । तस्मात्सिद्धं मङ्गलस्य विघ्नध्वंसहेतुत्वमित्यन्यत्र विस्तरः ॥
ननु ग्रन्थेऽस्मिन्निरूप्यन्ते तत्त्वानि न्यायाश्च तत्तत्त्वज्ञानायेति तु युक्तं, परं तज्ज्ञानं किं । वैषयिकसुखार्थं निर्वाणप्राप्तिलब्धाऽऽत्मसुखार्थ वेत्याशङ्कायां सर्वेषु पुरुषार्थेषु मोक्षस्यैव प्राधान्यतया तत्र च कृतस्यैव यत्नस्य वस्तुतः फलवत्त्वात् तदेवास्य ग्रन्थस्य तज्ज्ञानद्वारा परमं फलम् । तदुपायोपदेशस्यैव वास्तविकहितोपदेशत्वेनोपदेशरूपेऽस्मिन् ग्रन्थे प्रथमं तदुपाय एव वक्तव्य इति मनसि निधायाऽऽह
सम्यक्श्रद्धासंविचरणानि मुक्त्युपायाः। सम्यगिति । श्रद्धासंविञ्चरणानां द्वन्द्वानन्तरं सम्यगितिपदेन कर्मधारयः, द्वन्द्वादौ द्वन्द्वान्ते च श्रूयमाणपदस्य प्रत्येकमभिसम्बन्धात्सम्यक्श्रद्धासम्यक्संवित् सम्यक्चरणानां लाभः । मुक्त्युपायाः-मुक्तेरुपाया इति मुक्त्युपायाः नियतपुंलिङ्गोऽयमुपायशब्दः। मोक्षोपायोद्देशेन सम्यक्श्रद्धादीनि विधीयन्ते । ननु पुरुषार्थेषु प्रधानत्वात् मोक्ष एव प्रथम प्रदर्शनीयस्तत्कुतस्तदुपायः प्रदर्शित इति चेन्न, उपायोपदेशमन्तरेण भूतार्थकल्पस्य मोक्षो- 15 पदेशस्य वैयर्थ्यात् । विषयसिंयोगसमुत्थस्य सुखस्य दुःखोत्तरत्वेन क्षणिकदुःखप्रतीकारमात्रत्वेन च तदुद्वेगात्तद्धेतून परिजिहीर्षन्तं परमसुखानन्दनिमित्ताभिलाषुकं प्रति तदुपदेशस्यैव न्याय्यत्वाच्च । अभ्युदयहेतुधर्मार्थकामोपदेशो हि दुःखनिवृत्त्यार्थिनां न तदत्यन्ताभावप्रयोजक इति तस्य वस्तुतो न हितोपदेशत्वम् । ननु मुक्तिप्रसिद्धौ तदुपायोपदेशस्य युक्तियुक्तत्वेन तस्या एव निरूपणमादावुचितमितिचेन्न जिज्ञासुजिज्ञासाप्रमार्जनाशक्यत्वात् , तथा सति हि 20 मुक्त्युपायजिज्ञासोर्जिज्ञासाया निवृत्तिरकृता भवेत् । न च कथं न तेन जिज्ञासिता मुक्तिरिति वाच्यम् , लोकस्य भिन्नरुचित्वात् कस्यापि मुक्तौ विप्रतिपत्त्यभावाच्च । न च तत्रापि भावाभावादिरूपेणास्त्येव विप्रतिपत्तिर्वादिनामिति वाच्यम् । सर्वेषां साक्षात्परम्परया वा कृत्स्नकर्मविप्रमोक्षात्मिकाया मुक्तेरविगानेनाभिप्रेतत्वात् , न च प्रामुक्त्युपायनिर्देशाद्वन्धकारणनिर्देशो न्याय्यो बन्धपूर्वकत्वान्मुक्तेरिति वाच्यम् , संसारकारागारावरुद्धस्य विना मोक्षका- 25 रणोपदेशमाश्वासनासम्भवात् । कुतीर्थिकप्रणीतमोक्षकारणनिराकरणार्थत्वाच्चेति दिक् ।। ___ अत एव सर्व वाक्यं सावधारणमितिन्यायेन सम्यक्श्रद्धासंविचरणान्येव मुक्त्युपाया इति मूलार्थः । तत्र चोद्देश्यविधेयभावस्य कामचारतया सम्यक् द्धादीनामुद्देश्यत्वे 'तत्रैव