________________
न्यायप्रकाशटीकायुते तत्त्वन्यायविभाकरे
प्रायादिपरम्परया परमपदस्यावश्यप्राप्तेः । श्रोतॄणाश्चानन्तरं प्रयोजनं ग्रन्थसारभूतपदार्थयथावत्परिज्ञानं, परम्परन्तु परमपदप्राप्तिरेव, यथावद्विदितपदार्थसार्थानां निःसारसंसारोद्वेगजननात् परमपदप्राप्तयेऽङ्गीकृतप्रयत्नानां निःश्रेयसावाप्तेरिति । सुललितं शब्दतो लालित्यवन्तं, एतेनास्य ग्रन्थस्य बालानामनायासेन बोधजनकत्वमादर्शितम् । ग्रन्थं - वाक्यसन्दर्भरूपं 5 प्रकुर्वे - निबध्नामि । मुदा - आनन्देन नतु केशेनेतिभावः ॥
: ६ :
ग्रन्थेनानेन श्लोकद्वयात्मकेनेष्टदेवतागुर्वागमानां नमस्कारोऽभिधेयाद्यभिधानेन शिष्यप्रवृत्तिप्रतिबन्धकशङ्काशङ्कुसमुद्धरणञ्च कृतम् । अनायासेन बालबोधप्रयोजकत्वोपदर्शकसुललितपदेन तत्त्वन्यायानां महामतिभिः पूर्वसूरिभिर्गम्भीरवाक्यप्रबन्धैर्व्याख्यातत्वेऽपि साम्प्रतकालीनान्तेवासिनां मतिमान्द्यतया तैर्ग्रन्थैर्यथावदर्थावगमो न भवेदिति मन्वानेन मया मन्द10 मतिनाऽपि मन्दतरमतीनां शिष्याणमार्थावगमनिमित्तं सरलवचनप्रकारेणामुना प्रध्यन्ते त इत्यपि भाव आविष्कृतः ॥
ननु मङ्गयतेऽधिगम्यते येन हितं तन्मङ्गलं, मङ्गं धर्मं लाति -समादत्त इति मङ्गलं, मां भवात्संसाराद्वालयति - अपनयतीति मङ्गलं, माः - सम्यग्दर्शनादिलक्ष्मीर्गलयति प्रापयतीति वा मङ्गलमितिनिरुक्तिभिर्हितप्रापकत्वधर्मप्रापकत्व संसारापनायकत्व सम्यग्दर्शनादिप्रापकत्वरूपा -- 15 र्थानां शास्त्रमात्रेऽस्मिन् सत्त्वेन तदादौ मङ्गलकरणमनर्थकमितिचेन्न मङ्गयतेऽलङ्कियते शास्त्रमनेन, मन्यते - ज्ञायते निश्चीयते विघ्नाभावोऽनेन, मोदन्ते - शेरते विन्नाभावेन निष्प्रकम्पतया सुप्ता इव जायन्तेऽनेन, शास्त्रस्य वा पारं गच्छन्त्यनेन मा भूद्गलो विघ्नो यस्माच्छास्त्रस्येति वा मङ्गलमिति निरुक्तिलब्धशास्त्रालङ्कारकत्वविघ्नाभावनिश्चायकत्वशास्त्रपारप्रापकत्वविघ्ननाशकत्वरूपार्थावलम्बनतः प्रभुप्रभृतिनमस्कारप्रतिपादकश्लोकद्वयस्य मङ्गलत्वाभिधानात् एतेन 20 शास्त्रस्य मङ्गलस्य वाऽमङ्गलत्वसंशीतिर्निरस्ता, व्युत्पत्तिभेदेनोभयत्रैव मङ्गलत्वाक्षतेः । तदिदं मङ्गलं शास्त्रस्यादौ मध्ये पर्यन्ते च क्रियते, तत्रादौ मङ्गलं शास्त्रस्याविन्नेन पारगमनाय, निर्विघ्नेन परम्परयोपागतस्य शास्त्रस्य स्थिरत्वापादनार्थं मध्ये, प्रान्ते च स्थिरीभूतस्य शिष्यपरम्परायामव्यवच्छेदनिमित्तं बोध्यम् । यद्यपि कचिन्मङ्गलाभावे विघ्नाभावद्वारा समाप्ति - र्दृश्यते, तथा तत्सवेऽपि समात्यभावः । तथापि स्वतः सिद्धविघ्नविरहवता कृतस्य ग्रन्थस्य 25 समाध्या मङ्गलस्य विघ्नध्वंसद्वारा समाप्तिं प्रत्यहेतुत्वमेव, विघ्नात्यन्ताभावादपि समाप्त्युदयेन मङ्गलस्य वैयर्थ्यापत्तेः, तत्तत्समाप्तिं प्रति हेतुत्वे गौरवाञ्चातो विघ्नध्वंसं प्रत्येव तस्य हेतुत्वं, असम्पूर्णमङ्गलघटितग्रन्थेषु च मङ्गलेन विघ्ननाशेऽपि विघ्नप्राचुर्यान्न समाप्तिः, सम्पूर्ण मङ्गलहितग्रन्थेषु तु निर्विघ्नपरिसमाप्तिदर्शनेन वाचिकमङ्गलाभावेऽपि मानसिकादिमङ्गलमनुमेयमेव, कार्याकारणानुमानस्य सर्ववादिसिद्धत्वात् । न च तत्र समाप्तिर्विघ्नध्वंसप्रयुक्ता किन्तु