________________
मङ्गलाचरणम् । नाय, परम्परया विशिष्टादरनिमित्ताहन्मूलताप्रख्यापनार्थञ्चादौ गुरुपर्वक्रमलक्षणसम्बन्धप्रदर्शनपुरस्सरमभिधेयादिकं स्वकीयग्रन्थनाम चोपनिबध्नातिप्रज्ञावैभवसंमदिष्णुकथकप्रौढोक्तिविद्रावण
प्रख्यं जीवगणोपजीवकदयादृष्टिप्रकर्षोज्ज्वलम् । नत्वा श्रीकमलाख्यसूरिमसकृद्ध्यात्वा च जैनागमं,
तत्त्वन्यायविभाकरं सुललितं ग्रन्थं प्रकुर्वे मुदा ॥ प्रज्ञावैभवेति । प्रज्ञा-विशेषविषयिणी बुद्धिस्तस्याः वैभवेन-नवनवोन्मेषरूपेण सम्यङ्मदिष्णूनां कथकानां-वावदूकानां याः प्रौढोक्तयः सामान्यविद्वदुर्भद्यत्वात् तासां विद्रावणेभञ्जने प्रख्यः-प्रसिद्धस्तं, एतेन गुरोः प्रतिभातिशयः स्वसमयस्थापनसामर्थ्यश्चाविष्कृतम् । जीवगणस्योपजीविकायां-परिपालननिदानभूतायां दयायां दृष्ट्या-अवहितचेतसा प्रकर्षेणो- 10 ज्वलं-निर्मलं, अनेन चानेकनृपतीनामहिंसाधर्मप्रबोधनद्वारा दयाधर्मसंस्थापनकौशल्यं सूचितम् । ध्यानलक्षणकर्त्तव्यापेक्षया पूर्वकालभावित्वात्क्त्वाप्रत्ययान्तं पदमाह-नत्वेति'नमस्कृतिविषयमारचय्येत्यर्थः । आचारश्रुतशरीरवचनवाचनमतिप्रयोगमतिसंग्रहपरिज्ञालक्षणाष्टविधसम्पदः श्रियस्तासां कमलमिव आश्रयत्वात्कमल इति आख्या सार्थकं नाम यस्य सूरेस्तं, असकृत्-वारंवारं, ध्यात्वा-भक्तिश्रद्धाभ्यां मनोमन्दिरे संस्थाप्य, ग्रन्थरचनापेक्षया पूर्वकाल- 15 भावित्वात् क्त्वाप्रत्ययः । चः पुनरर्थको न पुनः समुच्चायकः, एकक्षणावच्छेदेन नमनचिन्तनात्मकद्विविधक्रियाऽसम्भवेन पौर्वापर्यनैयत्यात् , गुरुपरम्परयैव जैनागमस्यात्मनो लाभेन तन्नमनस्य ध्यानपूर्वकालभावित्वस्यैवोचितत्वाच्च । अनेन गुरुपर्वक्रमलक्षणसम्बन्धः श्रद्धानुसारिणः प्रति प्रदर्शितः । जयन्तीति जिना रागद्वेषविजेतारस्तैः प्रोक्तमागम-शास्त्रमनेनागमनमस्कारेण स्वकीयग्रन्थस्य समूलत्वं सूचितं, एतेन छद्मस्थत्वे सति स्वतन्त्रतयाऽभिधी- 20 यमानत्वे हेतावसिद्धतोद्भाविता । तथा गुरोरप्युपास्यतया प्रथमं गुरुतमस्याहतस्तदागमस्य च गुरुद्वारा प्राप्यमाणत्वात्सूरेस्ततो ग्रन्थस्यास्य मूलभूतस्याऽऽगमस्य प्रणामक्रम इत्यपि विनेयाः शिक्षिताः । तत्त्वानि जीवादीनि, न्यायास्तदधिगमकाः प्रमाणनयरूपास्तेषां विशिष्टा भाः स्वरूपप्रकारप्रमाणानि वस्तुयाथार्थ्यप्रकाशकत्वात् , तासामाकर इवाकरस्ताः करोतीति वा तत्त्वन्यायविभाकरस्तम् । एतेन तत्त्वन्याया अभिधेयास्तज्ज्ञानं प्रयोजनं, तर्कानुसारिणः 25 प्रत्युपायोपेयलक्षणसम्बन्धश्च प्रदर्शितः, अत्रेदम्बोध्यम् , प्रयोजनं ग्रन्थकर्तृगतं श्रोतृगतश्चेति द्विविधम् , अनन्तरपरम्परभेदतः प्रत्येकमपि पुनर्द्विविधम् , ग्रन्थकर्तुरनन्तरं प्रयोजनं सत्त्वानुग्रहः सर्वज्ञोदितपदार्थप्रतिपादनात् । परम्परन्तु मोक्षावाप्तिर्भव्यसत्त्वानुग्रहप्रवृत्तस्य स्वर्ग