________________
: ४ :
न्यायप्रकाशटीकायुते तत्त्वन्यायविभाकरे
रागद्वेषतृणालिपावक निभं वाणीसुधाम्भोनिधि,
श्रीमद्वीरजिनेश्वरं प्रतिदिनं वन्दे जगद्वल्लभम् ॥ १ ॥
"
भक्त्युद्रेकेति । भक्ति: - आराध्यत्वेन ज्ञानं, आराधना च गौरवितप्रीतिहेतुः क्रिया । तस्या उद्रेकोsतिशयेनाविर्भाव:, तेन नमन्तो ये सुराधिपा इन्द्रादयः तेषां शिरसां कोटी5 रेषु - मुकुटेषु यानि रत्नानि तेषां प्रभाणां द्योतनशीलं स्मेरं विकसितं पदाम्बुजं यस्य तं, अनेन प्रभोः पूजातिशयः प्रकाशितः । तथा निरुपममतुलमनन्तमिति यावत् तच तज्ज्ञानञ्च, तदेव प्रभा साकल्येनाखिलपदार्थप्रद्योतकत्वात् तया भासुरं - जाज्वल्यमानं, अन ज्ञानातिशयो दर्शितः । तथा रागः - अभिष्वङ्गः, द्वेषः - अप्रीतिः, तावेव तृणालिस्तृणव्रजः, रागद्वेषयोरतितुच्छत्वेन तृणतया रूपणम्, तस्मै पावक निभः- हुताशनसंकाशस्तं, 10 अनेनापायापगमातिशय उद्भावितः । एवं पञ्चत्रिंशद्गुणालङ्कृता वाण्येव निरन्तरानन्दप्रदत्वात्सुधा तस्या अम्भोनिधिरुत्पत्तिभूमिस्तम्, अनेन वागतिशय उक्तः, चतुस्त्रिंशदतिशयात्मिका भावार्हन्त्यरूपा कृत्स्नकर्मक्षयाविर्भूतानन्तचतुष्कसम्पद्रूपा वा श्रीस्समृद्धिरस्यास्तीति श्रीमान् नित्ययोगे मतुप्, विशेषेणेरयति - क्षिपति कर्माणीति वीरः, तपसा विराजमानत्वात् तपोवीर्येण युक्तत्वाद्वा वीरश्चतुर्विंशतितमतीर्थकृत्, यद्यपि निरुक्तव्युत्पत्त्या वीरपदेन 15 तीर्थकर सामान्योपस्थितिसम्भवः, तथापि योगा ढिर्बलवतीति न्यायाद्व्यक्तिविशेष एव विवक्षितः, निश्चयन येनैकभक्तौ सकलभक्तिसिद्धेः, आसन्नोपकारित्वेनास्यैव तात्पर्यविषयस चासौ जिनेश्वरस्सामान्यकेवलिनामपीश्वरस्तं, स्वस्यापि भक्त्युद्रेकं दर्शयति प्रतिदिनं वन्द इति, वन्दे - स्तौमि, अभिवादये च, केवलानां स्तुतिबोधकानां नमस्कारबोधकानां वा धातूनामनुपादानात् । जगतां वल्लभो जगद्वल्लभस्तं सकलचराचरोपकारित्वादिति भावः ॥ 20 नन्विदं शास्त्रं नारम्भणीयं, अभिधेयशून्यत्वात् काकदन्त परीक्षावत्, तथा प्रेक्षावतां ग्रन्थोऽयमनादेय एव, छद्मस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वाद्रध्यापुरुषवाक्यवदित्येवं प्रवदतां संदिहानानां वा प्रेक्षावतां प्रवृत्त्यर्थं वाच्योऽभिधेयः परमगुरूपदेशानुसारित्वच सम्बन्धः प्रथमतः । यदाहुः - " श्रुत्वाभिधेयं शास्त्रादौ पुरुषार्थोपकारकम् । श्रवणादौ प्रवर्तन्ते तजिज्ञासादिनोदिताः । नाश्रुत्वा विपरीतं वा श्रुत्वाऽऽलोचितकारिणः । 25 काकदन्तपरीक्षादौ प्रवर्तन्ते कदाचने "ति, तथा ' प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्त्तते । एवमेव प्रवृत्तचे चैतन्येनास्य किं भवेदि 'ति न्यायेन प्रयोजनमपि प्रकटनीयम्, अन्यथा प्रयोजनशून्यत्वादत्र नैव प्रवर्तेरन् प्रेक्षावन्तस्तथा वाच्यवाचकादि सम्बन्धवैधुर्येऽपि प्रवृत्त्यनुपपत्त्या सोऽपि वाच्य एवेति तदनभिधानप्रयुक्तप्रसज्यमानाऽऽशङ्कातङ्कसमुन्मूल
त्वाच्च,
I