SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॐ अर्हम् जैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरविरचितः तत्त्वन्यायविभाकरः॥ स्वोपज्ञन्यायप्रकाशटीकायुतः -> -- नयानेकवादप्रमाणप्रकाशं, भुवि ज्ञानचारित्रदत्तावकाशम् । इलादुर्गरत्नं जिनं शान्तिनाथ, नमामि प्रभाभासुरं भावतोऽहम् ॥ १ ॥ प्राचां प्रौढनिगूढभावभरितान् वाचां विलासान् परान् , शेमुष्या प्रविचार्य चारु गुरुभिर्दिष्टेन सद्वर्त्मना । तत्त्वन्यायविभाकरस्य कृतिनां मोदाय टीकामिमां, कुर्वे मञ्जुलयुक्तिजालजटिलां न्यायप्रकाशाभिधाम् ॥२॥ क्क स्याद्वादो महाम्भोधिरल्पशक्तिर्मतिः क्व मे । बाहुना तं तितीर्षन्तं क्षमन्तां गुणवेदिनः ॥ ३ ॥ इह हि शास्त्रारम्भे क्वचिदभीष्टे प्रवर्तमानाः श्रेयस्काम्यया विशिष्टस्वेष्टदेवतानमस्कारपुरस्कारेणैव प्रवर्तन्ते, स च नमस्कारो यद्यपि शरीरेण मनसा वा क्रियमाणो निखिलप्रबलप्रत्यूहसमूहोन्मूलनपटिष्ठतया प्रारिप्सितशास्त्रपरिसमाप्तये सम्पनीपद्यते, तथाप्यशेषान्तरायनिचयविघातनिमित्तमिष्टदेवतानमस्कारपूर्वकमेवान्तेवासिनः प्रवर्तन्तामिति शिष्यान् शिक्षयितुं द्रव्याद्यपकृष्टमङ्गलानि विहाय नोआगमतो भावमङ्गलं प्रभुनमस्काररूपमादौ 15 निबध्नातिभक्तयुद्रेकनमत्सुराधिपशिरकोटीररत्नप्रभा द्योतिस्मेरपदाम्बुजं निरुपमज्ञानप्रभाभासुरम् । 10
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy