________________
न्यायप्रकाशटीकायुते तत्त्वन्यायविभाकरे कारयोगे सम्यक्रद्धादीन्येव मोक्षोपाया नान्य इत्यन्ययोगव्यवच्छेदस्य, विधेयेन सह एवकारस्य च सम्बन्धे सम्यक्श्रद्धादीनि मुक्त्युपाया एवेत्ययोगव्यवच्छेदस्य च लाभः । श्रद्धादौ सम्यक्त्वं यथावदवस्थितार्थपरिच्छेदित्वं, तच्च निसर्गश्रद्धायामधिगमश्रद्धायाश्च वर्तत एव,
आद्यायां निमित्तान्तरनिरपेक्षतया द्वितीयायाश्च गुर्वाद्युपदेशान्तरसापेक्षतयेति विशेषः । 5 श्रद्धा-आस्थारूपा दृष्टिः, सा चेन्द्रियानिन्द्रियार्थोपलब्धिः सा च सम्यग्रुपाऽव्यभिचारिणी,
इदमेव तत्त्वं-परमार्थो न भवतीतर इत्येवंरूपा, नयप्रमाणविकल्पहेतुको जीवादिपदार्थयाथात्म्यावगमः सम्यक्संवित् । अष्टविधकर्मनिवृत्तिं प्रत्युद्यतस्य ज्ञानवतस्सामायिकादिसदसत्क्रिया प्रवृत्तिनिवृत्तिलक्षणं मूलोत्तरगुणशाखाप्रशाखं सम्यक्चरणम् । यस्य जीवस्य मिथ्यादर्शन
पुद्गलोदयस्तस्य श्रद्धासंविच्चरणानां मुक्ति प्रत्यनुपायत्वेन व्यभिचारवारणाय सम्यक्त्वं तेषां 10 विशेषणमुपात्तम् । उत्तरोत्तरस्य सत्त्वे पूर्वपूर्वस्यावश्यम्भावनियमप्रकाशनाय श्रद्धासंविञ्चरणानां तथाक्रमविन्यासो विहितः । यत्र च स्वयम्बुद्धादीनां झटिति सम्यक्संविदुदयस्तत्रापि निसर्गसम्यग्श्रद्धास्त्येवेति न तत्त्वरुचिलक्षणसम्यक्छ्रद्धाया व्यभिचारः। ननु पूर्वसत्त्वे उत्तरसत्त्वस्यानियमो यथा सम्यग्दर्शनसत्त्वे स्यान्नवा सम्यक्संविदिति, तदनुचितं, अज्ञानपूर्वकश्रद्धान
प्रसङ्गात् , अविज्ञातेषु जीवादिषु श्रद्धानासम्भवेन सम्यक्श्रद्धाया अभावप्रसङ्गात् मिथ्याज्ञान15 निवृत्तावुत्पन्नायामपि श्रद्धायां ज्ञानालाभे आत्मनो ज्ञानोपयोगाभावप्रसङ्गाच्चेति चेन्न यावति
ज्ञाने ज्ञानमित्येतत्परिसमाप्यते तावत एवानैयत्योक्तेः, उपशमक्षयोपशमक्षयात्मककारणत्रयजन्यसम्यक्श्रद्धातःक्षयक्षयोपशमात्मककारणद्वयजन्यसम्यक्संविदो भेदोऽस्त्येव कारणभेदात, सम्यक्श्रद्धायास्सर्वद्रव्यपर्यायविषयकत्वात् , श्रुतात्मकसम्यक्संविदश्च सर्वद्रव्यविषयकत्वे
सति कतिपयपर्यायविषयकत्वादपि तयोर्भेदः । समुदितानामेषां मुक्त्युपायत्वमिति सूचयितुं 20 द्वन्द्वसमासः कृतः । मोचनमष्टविधकर्मभ्यः पृथग्भावो मुक्तिः-मुच्ल मोचन इतिधातो वे
क्तिप्रत्ययात् । तस्या उपायाः साधनानि, सम्यक् द्धादिभिस्सामानाधिकरण्यादुपायशब्दाद् व्यक्तिबहुत्वप्रयुक्तं बहुवचनम् । ननु सम्यक्श्रद्धादिभ्य इतरविनिर्मुक्तेभ्यो मुक्तिन भवत्येव, यथाहि भेषजे रोगापनयनार्थिनो रोगिणस्तत्र श्रद्धाया रोगापहारकत्वज्ञानस्य तदभ्यवहार
क्रियाप्रवृत्तेश्च विरहे नैव भवति रोगापनयस्तत्कथं त्रिष्वेककारणताबोधकमेकवचनं विहायो25 पायशब्दाद्व्यक्तिबहुत्वप्रयुक्तं बहुवचनमङ्गीकृतं, तथा च सति प्रत्येक कारणताप्राप्तिप्रसङ्गः
स्यादिति चेत्सत्यम् , प्रोक्तमेव तथा पूर्वाचार्यैः 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति, अत्र तु समासादेव तत्प्राप्त्या समस्तपदसामानाधिकरण्यानुरोधाद् बहुवचनमादृतम् , अत एवैकस्यैव सम्यग्दर्शनस्योत्पत्तौ निसर्गाधिगमयोयोर्हेतुत्वं मा प्रसाडीदिति मन्वानरुमास्वातिवाचकमुख्यैर्निसर्गाधिगमाभ्यामित्यनुक्त्वा 'निसर्गादधिगमाद्वा' इत्युक्तं टीकाक