________________
तस्वन्यायधिमाकरे
[ दशमहिरणे लक्षितलक्षणालङ्कतसभास्तारांश्च विना को नाम नियामकः स्यात् । प्रमाणतदाभासपरिज्ञानसामोपेतवादिप्रतिवादिभ्याश्च विना कथं वादः प्रवर्तेत । न चेदृशस्य वादस्य चतुरङ्गत्वेऽपि वचनविकल्पोपपत्तितो वचनविघातलक्षणेन छलेन, साधर्म्यवैधान्यवस्प्रयुक्तदूष
णात्मकजात्या, विप्रतिपत्त्यप्रतिपत्तिरूपनिग्रहस्थानेन च जयेतरव्यवस्था, न तु प्रमाणतदाभा5 सयोर्दुष्टतयोद्भावितयोः परिहृतापरिहृतदोषमात्रेण सेति वाच्यम् , छलजात्योरसदुत्तररूपत्वेन स्वपरपक्षयोस्साधनदूषणत्वासम्भवतो जयेतरव्यवस्थानिबन्धनत्वायोगात् । स्वपक्षासिद्धिरूपपराजयस्यैव निग्रहहेतुत्वेन निग्रहत्वात् , विप्रतिपत्त्यप्रतिपत्त्योश्च निग्रहस्थानत्वस्यैवायोगादिति, अधिकमन्यतोऽवसेयम् । तदेवं प्रमाणप्रयोगभूमिभूतो वादो निरूपित इत्याहेतीति ।
इत्थं सम्यग्ज्ञानं प्रमाणविषयफलप्रमातृरूपेण चतुर्विधव्याख्याप्रकारेण तदङ्गतया नयं 10 प्रमाणप्रयोगभूमिश्चाभिधाय निरूपणस्यास्य प्रामाणिकतामाविष्करोति- .
पूर्वागमान् पुरस्कृत्य भेदलक्षणतो दिशा।
बालसंवित्प्रकाशाय सम्यकसंवित्प्रकाशिता ॥ - पूर्वागमानिति । अस्मदवधिकपूर्वत्वविशिष्टानाचार्यसिद्धसेनजिनभद्रगणिहेमचन्द्रवादिदेवसूरियशोविजयवाचकप्रभृतिसन्हब्धान् ग्रन्थरत्नानित्यर्थः । पुरस्कृत्येति, अक्षिलक्षीकृत्य 15 विचार्य वेत्यर्थः, तेन निजग्रन्थस्य पूर्वागमसंमतार्थप्रकाशकत्वेन प्रामाण्यं प्रकाशितम् , पूर्वाग
मपदेन भगवदर्हदागमस्य मङ्गलभूतस्य स्मरणात् सम्यग्ज्ञाननिरूपणान्ते मङ्गलस्य प्रकाशनश्च कृतं भवति । सम्यक्संविदः प्रकाशनं कथं कृतमित्यत्राह भेदलक्षणतो दिशेति, अवान्तरभेदैस्तल्लक्षणैश्च संक्षेपेण पूर्वाचार्यग्रन्थप्रवेशानुकूलतयेत्यर्थः । तेन स्वग्रन्थस्य पूर्वाचार्यप्रकाशि
तार्थप्रकाशकत्वेन पिष्टपेषणकल्पत्वमपाकृतम् । ननु परिकर्मितचेतसामनायासेनैव तेभ्यो 20 बोधो भविष्यत्येवेति संक्षेपकरणं निष्फलमेवेत्याशंकायामाह बालसंवित्प्रकाशायेति, भवत्येव
निस्संशयं तेभ्यः परिकर्मितमतीनां बोधो गम्भीरार्थग्रहणसामर्थ्यात् , तादृशसामर्थ्य विकलानां तत्प्रवेष्टणां बालानान्तु दुरवगाहत्वात्तत्र प्रवेशस्य दुष्करत्वेन तत्प्रवेशसम्पादनायैव सुगमतया संक्षेपेण सम्यक्संविदो निरूपणमारचितमिति सफलमेवेति न पिष्टपेषणकल्पताऽस्येति भावः । प्रकाशितेति भूतकृदन्तेन सम्यक्सविनिरूपणं पूर्णमिति सूचितमिति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायां वादनिरूपणं नाम दशमः किरणः ॥
समाप्तो द्वितीयो भागः