________________
न्यायप्रकाशसमलते करणमित्यर्थः । कथाविशेषनियमनमिति, सर्वानुवादेन दूष्यानुवादेन वर्गपरिहारेण वा वक्तव्यमित्यादिरूपेण कथाविशेषस्य नियमनमिति भावः । पूर्वोत्तरेति, अस्य प्राथमिको वादः, अस्योत्तरवाद इत्येवं वादनिर्देश इति भावः । तद्वचनेति, वादिप्रतिवादिभ्यामभिहितयोः साधकबाधकयोर्गुणस्य दोषस्य च निश्चयीकरणमिति भावः । तत्त्वप्रकाशनेनेति, यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद्वाऽन्यतरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा 5 द्वावपि तत्त्वपराङ्मुखमुदीरयन्तौ न विरमतस्तदा तयोस्तत्त्वप्रकाशनेन कथातो बहिष्करणमिति भावः । जयपराजयेति, कथाफलस्य यथायोगं जयपराजयरूपस्योद्घोषणमित्यर्थः ॥
अथ सभापतिस्वरूपं दर्शयति- . ... प्रज्ञाऽऽज्ञासम्पत्तिसमताक्षमालङ्कतः सभापतिः ॥
प्रज्ञेति । सभापतेरप्राज्ञत्वे क्वचिद्वादिना प्रतिवादिना वा जिगीषुणा शाठ्यात्सभ्यान् । प्रत्यपि विप्रतिपत्तौ विधीयमानायां तत्समयोचितकार्यकर्तृत्वं न स्यादिति तेन प्रज्ञालतेन भाव्यमिति भावः । स्वाधिष्ठितवसुन्धरायामस्फुरिताज्ञैश्वर्यो विवादं न व्यपोहितुमुत्सहत इति आज्ञासम्पत्त्यलङ्कत इत्युक्तम् । कृतपक्षपाते च सभापती सभ्या अपि भीतभीता इवैकतः किल कलङ्कः, अन्यतश्चावलम्बितपक्षपातः प्रतापाधिपतिस्सभापतिरितीतस्तटमितो व्याघ्र इति न्यायेन कामपि कष्टां दशामाविशेयुर्न पुनः परमार्थ प्रथयितुं प्रभवेयुरतस्समता- 15 लङ्कत इत्युक्तम् । उत्पन्नक्रोधाः पार्थिवा यदि तत्फलं नोपदर्शयेयुस्तदा निदर्शनमकिश्चिकराणां स्युरिति तेषां कोपे सफले वादोपमर्द एव भवेदिति क्षमालङ्कत इत्युक्तम् ॥ --- अस्य कर्त्तव्यमाह___ अनेन च वादिप्रतिवादिभ्यां सभ्यैश्च प्रतिपादितस्यार्थस्यावधारणं तयोः कलहनिराकरणं तयोश्शपथानुगुणं पराजितस्य शिष्यत्वादिनिय- 20 मनं पारितोषिकादिवितरणश्च कर्त्तव्यम् ॥
. अनेन चेति, सभापतिना चेत्यर्थः । तयोरिति, वादिप्रतिवादिनोरित्यर्थः, सर्वमन्यत्प्र. काशम् । तथा च वादस्य क्वचिजिगीषुविषयत्वेन चतुरङ्गत्वं, नतु वादत्वात् , स्वाभिप्रेतार्थव्यवस्थापनफलत्वाद्वा व्यङ्गयङ्गवादानामपि तथात्वापत्तेः, अपि तु विजिगीषुवाद एव तथा, तत्रैकस्याङ्गस्यापि वैकल्ये प्रस्तुतार्थापरिसमाप्तेः । मर्यादोल्लंघनेन हि प्रवर्त्तमानानामहङ्कारग्रह- 25 प्रस्तानां वादिप्रतिवादिनां प्रभुत्वादिशक्तित्रयसम्पन्नमाध्यस्थ्यादिगुणोपेतसभापतिमन्तरेण
१. वादिना प्रतिवादिना वा प्रोक्तं सर्व परस्परमनूद्य दूष्यांशमात्रं वाऽनूद्य कवर्गादीन् परिहृत्य वा वक्तव्यमित्यादिरूपतो वादनियमनमित्यर्थः॥