________________
तत्त्वन्यायविभाकरे
[ दशमकिरणे कृत्यमाहैताविति, वादिप्रतिवादिनावित्यर्थः, वादिना हि निजपक्षस्थापनं परपक्षनिषेध. नश्च तत्त्वनिर्णयान्यथानुपपत्त्या विधेयं तदपि स्वाभिमतात्प्रमाणादेव, एवं प्रतिवादिनापि कार्यम् । कचिदेकप्रयत्नेनापि स्वपक्षस्थापनपरपक्षप्रतिक्षेपौ भवत इति सूचनाय समासनिर्देशः । यदा हि वादिनिरूपणेऽवसिते प्रतिवादी वदति तदा वाद्यभिधानं प्रमाणोपक्रा5 न्तत्वात् स्वपक्षस्थापनरूपमेव परपक्षप्रतिक्षेपः, यदा तु वादिप्रतिवचने विरुद्धत्वादिकमुद्भावयेत्तदा परपक्षप्रतिक्षेप एव स्वपक्षसिद्धिरित्येवं प्रतिवाद्यभिधानेऽपि भाव्यम् ।।
अथ सभ्यलक्षणमाचष्टे
उभयसिद्धान्तपरिज्ञाता धारणावान् बहुश्रुतः स्फूर्तिमान् क्षमी मध्यस्थः सभ्यः । वादोऽयं त्रिभिस्सभ्यैरन्यूनो भवेत् ॥ 10. उभयसिद्धान्तपरिज्ञातेति । वादिप्रतिवादिसिद्धान्ततत्त्वकुशल इत्यर्थः, न चैतद्बहु
श्रुतत्वे सत्यवश्यम्भावि, तस्यान्यथापि भावात् । सभ्यानामुभयसिद्धान्तपरिज्ञातृत्वाभावे च वादिप्रतिवादिप्रतिपादितसाधनदूषणेषु सिद्धान्तसिद्धत्वादिगुणानामवधारयितुमशक्यता स्यादिति भावः । धारणावानिति, उभयसिद्धान्तवेत्तत्वेऽपि विना धारणां स्वावसरे न गुण
दोषावबोधकत्वमतस्साप्यपेक्षितेति भावः । कचिद्वादिप्रतिवादिभ्यां स्वप्रौढिमप्रकटनाया18 त्मसिद्धान्तानभिहितयोरपि व्याकरणादिप्रसिद्धयोः प्रसङ्गतः प्रयुक्तोद्भावितयोर्गुणदोषयोः
परिज्ञानार्थ. बहुश्रुत इति । स्फूर्तिमानिति, ताभ्यामेव स्वप्रतिभयोत्प्रेक्षितयोस्तत्तद्गुणदोषयोनिर्णयार्थ स्फूर्तेरपेक्षणमिति भावः । वादिप्रतिवाद्यन्तरस्मिन् सभ्यैर्दोषे निर्णीते कदाचिदन्यतरेण परुषेऽभिहितेऽपि तैर्निष्कोपैर्भवितव्यमन्यथा तत्त्वावगमव्याघातप्रसङ्गस्स्यादत उक्तं
क्षमीति । तत्त्ववेदिनोऽपि पक्षपातेन गुणदोषौ विपरीतावपि प्रतिपादयेयुरिति मध्यस्थ 20 इति । वादे प्रायिकं सभ्यसंख्यानियममाह-वादोऽयमिति, उपलक्षणमिदम् , तेन त्रिचतुरादीनामेषामलाभ एकोऽपि सभ्यो भवितुमर्हतीति सूचितम् ॥
विधेयमेषामादर्शयति
सभ्यैरेतैर्यथायोगं वादिप्रतिवादिनोः प्रतिनियतवादस्थाननियमनं कथाविशेषनियमनं पूर्वोत्तरवादनिर्देशस्तद्वचनगुणदोषावधारणं तत्त्व25 प्रकाशनेन यथासमयं वादविरामः जयपराजयप्रकाशनश्च कार्यम् ॥ - सभ्यरेतैरिति । निरुक्तलक्षणैस्सभासद्भिरित्यर्थः । यथायोगमिति, वादिप्रतिवादिनौ यदा स्वीकृतप्रतिनियतवादस्थानकतयोपस्थितौ भवतस्तदा तयोः प्रतिनियतवादस्थाननियमन