________________
वादः ]
म्यायप्रकाशसमलङ्कृते
: ५१७ :
चाङ्गद्वयम् । केवली चेत्प्रतिवादी तदाऽङ्गद्वयमपेक्षितम् । यदा तु केवली वादी जिगीषुश्च प्रतिवादी तदा चत्वार्य्यङ्गानि स्वात्मनि तत्त्वनिर्णनीषुः क्षायोपशमिकज्ञानवान् वा प्रतिवादी तदाऽङ्गद्वयमेवापेक्षितम् ॥
देति । चत्वार्यङ्गानीति, कलहादिसम्भवात् लाभेच्छासम्भवाच्च सभासदस्सभापतिश्वापेक्षित इति भावः । यदा प्रतिवादी स्वात्मनि तत्त्वनिर्णिनीषुः परत्र तत्त्वनिर्णिनीषुर्वा 5 तदाङ्गनियमं सामर्थ्यांसामर्थ्यप्रयुक्तमाह स्वात्मनीति । प्रतिवादी केवली चेत्तदाह केवलीति । ननु परत्र तत्वनिर्णिनीषोर्वादिनः केवलिना कथं वादः परस्य केवलिनस्समग्र पदार्थ परमार्थदर्शित्वादिति चेत्सत्यम्, असीम महिममोहहतत्वाद्वादिन आत्मानं निर्णीततत्त्वमिव मन्यमानस्य केवलिन्यपि तत्त्वनिर्णयोपजननार्थं प्रवृत्तेः परमकृपापीयूष पूरपरिपूरितान्तःकरणत्वेन केवलिनस्तस्यापि बोधकत्वात् । केवलिनो वादित्वे जिगीषोः स्वात्मनि तत्त्वनिर्णिनीषों: 10 परत्र तत्वनिर्णिनीषोर्वा प्रतिवादित्वेऽङ्गनियममाह यदा त्विति, केवलिनो वादित्वं परोपकारैकप्रवणत्वाद्विज्ञेयम् । शेषं मूलमुत्तानार्थम् ॥
1
वादः केषां न भवतीत्यबाह -
जिगीषुस्वात्मतत्त्वनिर्णिनीष्वोः स्वात्मतत्वनिर्णिनीषुजिगीष्वोः, स्वात्मतत्त्वनिर्णिनीष्वोरुभयोरुभयोश्च केवलिनोर्वादिप्रतिवादिभावास - 15 म्भवान्न वादः प्रवर्त्तते ॥
"
क
जिगीष्विति । उभयेोरिति, स्वात्मनि तत्त्वनिर्णिनीष्वोः स्वस्मिन् तत्त्वनिर्णयाभावेन परावबोधार्थं प्रवृत्तेरसम्भवान्न वादित्वं प्रतिवादित्वं वाऽश्नुत इति भावः । उभयोश्चेति, परोपकारिणः केवलिनः परत्र तत्त्वनिर्णिनीषायास्सम्भवेऽपि केवलकलावलोकितसकलवस्तुतया कृतकृत्ये केवलिनि विषये न सा समुदेतीति तयोर्न वादिप्रतिवादित्वमिति भावः ॥ 20
अथ प्रत्येकमङ्गानि निरूपयितुमारभते-
प्रथमं वादारम्भको वादी, तदनु तद्विरुद्धारम्भकः प्रतिवादी, एतौ स्वपरपक्षस्थापनप्रतिषेधौ प्रमाणतः कुर्वीयाताम् ॥
प्रथममिति । चतुरङ्गेण त्र्यङ्गेण द्व्यङ्गेन वा समलङ्कृतायां परिषदि येनादौ वाद आरभ्यते स वादीत्यर्थः । तदन्विति, यश्च तत्पश्चाद्वादिनो वादमनुवदन्नननुवदन् वा तदुक्तपक्षे 25 तद्विरुद्धं प्रमाणप्रतिपन्नं दूषणं समुद्भावयति स प्रतिवादी प्रत्यारम्भक इत्यर्थः । उभयोः