SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ तत्त्वम्यायविभाकरे [ दशमकिरणे जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषुश्च । तत्र जिगीषोः प्रत्यारम्भकतया यदोभावपि जिगीषू इत्यनेनोक्तत्वात् , जिगीषोः स्वात्मनि तत्त्वनिर्णिनीषोश्च वादिप्रतिवादित्वासम्भवेन च परत्र तत्त्वनिर्णिनीषुरेवात्र क्षायोपशमिकज्ञानिपदेन विवक्षितः । चत्वार्यङ्गान्यपेक्षितानीति, वादिप्रतिवाद्यभावे हि वाद एवानुत्थानोपहतो जयपराजयौ तु दूर 5 इति ताववश्यं सिद्धावेव, उभावपि यदि जिगीषू स्यातां तदा परस्परं जयपराजयव्यवस्थाविलोपकारिशाठ्यकलहादिसम्भवात्पराङ्गद्वयं विवक्षितमेव, क्षायोपशमिकज्ञानी केवली वा यदा प्रत्यारम्भकस्तदापि जिगीषोर्वादिनश्शाठ्यकलहाद्यपोहनाय लाभादिहेतवे तदपेक्ष्यत एवेति भावः॥ स्वात्मनि तत्त्वनिर्णिनीपुरारम्भकः क्षायोपशमिकज्ञानी तृतीयः प्रत्यारम्भकस्तदा 10 तत्राङ्गनियममाह यदा स्वात्मनि तत्त्वनिर्णिनीषुर्वादी प्रतिवादी च परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान् तदा समर्थश्चेत्प्रतिवादी वादिप्रतिवादिरूपाङ्गद्वयमेवापेक्षितम् । असमर्थश्चेत्सभ्येन सहाङ्गत्रयमपेक्षितम् , केवली चेत्प्रतिवादी तदाङ्गद्वयमेव ॥ 15 यदेति । समर्थश्चेदिति, जयपराजयनिरपेक्षो वादिनो विवक्षिततत्त्वावबोधनपटुश्चे दित्यर्थः । अङ्गद्वयमेवेति, अनुपयोगेन सभ्यसभापत्यात्मकाङ्गद्वयाऽनावश्यकत्वात् न ह्यनयोस्स्वपरोपकारायैव प्रवृत्तयोइशाठ्यलाभादिकामनासम्भव इति भावः । यदा पुनरुत्ताम्यतापि प्रतिवादिना कथञ्चिदपि तत्त्वनिर्णय कत्तुं न पार्यते तदा तन्निर्णयार्थमुभाभ्यामपि सभ्या नामपेक्षितत्वेन कलहलाभाद्यनभिप्रायेण च सभापतेरनपेक्षणीयत्वात्तदाऽङ्गत्रयमेवापेक्षित20 मित्याहासमर्थश्चेदिति । केवली चेत्प्रतिवादी तदा कथमङ्गनियम इत्यत्राह केवली चेदिति । प्रतिवादिनस्तत्त्वनिर्णयासामर्थ्यासम्भवेन तदर्थं सभ्यानपेक्षणात् , उभयोः कलहाद्यभिप्रायाभावेन च सभापतेरप्यनपेक्षणादिति भावः ॥ ननु वादी क्षायोपशमिकज्ञानी परत्र तत्त्वनिर्णिनीषुः प्रतिवादी च जिगीषुरन्ये वा प्रतिवादिनस्तदाङ्गनियमनाय प्राह25 यदा क्षायोपशमिकज्ञानवान् परत्र तत्त्वनिर्णिनीषुर्वादी प्रतिवादी च जिगीषुस्तदा चत्वार्यङ्गानि, स्वात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान् परत्र तत्त्वनिर्णिनीषुर्वा प्रतिवादी तदाऽसमर्थत्वेऽङ्गत्रयं समर्थत्वे
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy