________________
वादः ]
न्यायप्रकाशसमलङ्कृते धर्मकर्ता च सदा धर्मपरायणः । सत्त्वेभ्यो धर्मशास्त्रार्थदेशको गुरुरुच्यते' इतिलक्षणलक्षितः, आदिना सब्रह्मचारिसुहृदादीनां ग्रहणम् , यथाक्रमेण वादिप्रतिवादिनावत्रावसेयौ। परत्र तत्त्वनिर्णिनीषोर्भेदमाहायमिति, परत्र तत्त्वनिर्णिनीषुरित्यर्थः । ज्ञानावरणीयेति, ज्ञानावरणीयकर्मविशेषप्रतियोगिकक्षयोपशमाविर्भूतव्यस्तसमस्तान्यतरमतिश्रुतावधिमनःपर्यवरूपज्ञानवानेकः, ज्ञानावरणकर्मसामान्यप्रतियोगिकक्षयाविर्भूतकेवलज्ञानवानपर इति 5 द्विभेदो भाव्यः। समस्तपदार्थतत्त्वज्ञानशालिनः केवलिनस्वात्मनि तत्त्वनिर्णयेच्छाया जयेच्छाया वा सुतरामसम्भवेन परिशेषात् स्वात्मनि तत्वनिर्णिनीषुर्विजिगीषुश्च क्षायोपशमिकज्ञानवानेव भवतीत्याशयेनाह स्वात्मनीति, एवमेव क्षायोपशमिकज्ञानवानेव, वीतरागत्वेन केवलिनो जयेच्छाया अभावादिति भावः ॥ नन्वेवं सत्यारम्भकः कतिविधस्सम्पन्न इत्यत्राह
10 तथा चारम्भको जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानवान् केवली चेति चतुर्विधस्सम्पन्नः। एवं प्रत्यारम्भकोऽपि ॥
तथा चेति । क्षायोपशमिकज्ञानवानित्यनेन परत्र तत्त्वनिर्णिनीषुः केवलि भिन्नो ग्राह्यः, स्पष्टमन्यत् । आरम्भकप्रत्यारम्भकयोहस्तिप्रतिहस्तिन्यायेन प्रसिद्धेर्यावन्त आरम्भकास्तावन्त एव प्रत्यारम्भका इत्याशयेनाहैवमिति, आरम्भकवदेवेत्यर्थः, तथा चायमपि चतुर्विध 15 इति भावः॥
वादोऽयं चतुरङ्गोऽपि भवति, तत्रैकस्याप्यङ्गस्य वैधुर्ये कथात्वानुपपत्तेः वादिप्रतिवाद्यपेक्षयाऽङ्गनैयत्यात्, न हि वर्णाश्रमपालनक्षम न्यायान्यायव्यवस्थापकं पक्षप्रतिपक्षरहितत्वेन समदृष्टिं सभापतिं वक्ष्यमाणलक्षणान् प्राश्निकांश्च विना वादिप्रतिवादिनौ स्वाभिमतसाधनदूषणसरणिमाराधयितुं क्षमौ, नापि दुःशिक्षितकुतर्कलेशबालिशजनविप्लावितो 20 गतानुगतिको जनस्सन्मार्ग प्रतिपद्येत, तस्मात्कयोः कयोर्वादे वादिप्रतिवादिसभ्यसभापतिरूपेषु वक्ष्यमाणलक्षणेषु चतुरङ्गेषु कत्यङ्गान्यवश्यमपेक्षितानीत्येतद्दर्शयति___ यदोभावपि जिगीषू, जिगीषुक्षायोपशमिकज्ञानिनौ, जिगीषुकेवलिनौ वा वादिप्रतिवादिनौ भवतस्तदा वादिप्रतिवादिसभ्यसभापतिरूपाणि चत्वार्यङ्गान्यपेक्षितानि ||
25. यदेति । उभावपीति, आरम्भकप्रत्यारम्भकावुभावपीत्यर्थः, जिगीषू इति, वादिप्रतिवादिनौ भवत इत्यप्रेतनेन सम्बद्ध्यते । जिगीषुक्षायोपशमिकेति, क्षायोपशमिकज्ञानी हि