________________
१ ३१४ :
तस्वन्यायविभाकरे
[ दशमकिरणे
अङ्गीकृतधर्मसाधनाय साधनदूषणवचनैर्विजयमिच्छुर्जिगीषुः । स्वीकृतधर्मस्थापनाय साधन दूषणवचनैस्तत्त्व संस्थापनेच्छुस्तत्त्वनिर्णिनीषुः ॥
अङ्गीकृतेति । अङ्गीकृतो यो धर्मः कथचिन्नित्यत्वादिस्तस्य साधनाय व्यवस्थापयितुं तत्साधनं कर्त्तुं परपक्षं दूषयितुञ्च प्रवृत्तः स्वविजयं परपराजयश्चेच्छुर्जिगीषुरित्यर्थः । परपरा5 जयमन्तरेण स्वविजयासम्भवादिति भावः । तत्रनिर्णिनीषुमाह स्वीकृतेति शास्त्रेणेति शेषः, परस्मिन् स्वस्मिन् वा कथञ्चिन्नित्यत्वादिव्यवस्थापनार्थ साधनदूषणवचननिचयैः कथचि - न्नित्यत्वादिलक्षणतत्त्वप्रतिष्ठाकाम इत्यर्थः ॥
अस्य प्रकारान् प्रकाशयति
अयं स्वस्य सन्देहादिसम्भवे स्वात्मनि तत्त्वनिर्णयं यच्छति तदा 10 स्वात्मनि तत्त्वनिर्णिनीषुर्भवति । परानुग्रहार्थं परस्मिन् तत्त्वनिर्णयं यच्छति तदा परात्मनि तत्स्वनिर्णिनीषुर्भवति ॥
अयमिति । तत्त्वनिर्णिनीषुरित्यर्थः, तत्त्वनिर्णयः स्वस्य परस्य च भवति, यदा स्वस्य सन्देहादिसम्भवस्तत्परिहारेच्छा च भवति तदा स स्वात्मनि तत्त्व निर्णयाभिलाषुकत्वात्स्वात्मनि तत्त्वनिर्णिनीषुरित्युच्यते । यस्तु परानुग्रहैकप्रवणः परस्य तत्त्वं ग्राहयितुमिच्छति तदासौ 15 परात्मनि तत्त्वनिर्णिनीषुरित्युच्यते इत्याशयेनाह स्वस्येत्यादिना, स्पष्टमन्यत् । ननु परत्र तत्त्वनिर्णिनीषुणा परस्मिन् निर्णय उत्पादिते सभ्यैस्तस्य जयघोषस्य क्रियमाणत्वात्तस्य जिगीषुता प्राप्तेति जिगीषोरस्य कथं भेद इति चेन्न तदनिच्छातस्तस्य परोद्घोषमात्रेण तदभिलाषुकत्वासम्भवात् । न च तर्ह्यसौ नाश्नुते जयमिति वाच्यम्, जयिनोऽपि तदभिलाषाभावात् । अनिष्टानामप्यनुकूलप्रतिकूलदैवोपकल्पितानां फलानां जनैरुपभुज्यमानतयाऽवलोकनात् । 20 तथा च परत्र तत्त्वनिर्णिनीषोः परस्य तत्त्वावबोधनं मुख्यं फलमानुषङ्गिकन्तु जय इति ॥
स्वात्मनि तवनिर्णिनीषुश्शिष्य सब्रह्मचारि सुहृदादयः । परस्मिन् तत्त्वनिर्णिनीषुश्च गुर्वादिः । अयं ज्ञानावरणीयकर्मणः क्षयोपशमात्समुत्पन्नमत्यादिज्ञानवान् केवलज्ञानवान् वा भवति । स्वात्मनि तत्त्वनिर्णिनीषुस्तु क्षायोपशमिकज्ञानवानेव, जिगीषुरप्येवमेव ॥
25
स्वात्मनीति | शिष्यः शिक्षणायोपाध्यायस्योपासको ग्रहणधारणपटुः, सदाऽऽज्ञाविधायी सम्यग्विनयपरिपालकः । सब्रह्मचारी सतीर्थ्यः, सुहृन्मित्रम् । परस्मिन् तत्त्वनिर्णनीमा परस्मिन्निति, गुर्वादिरिति, सम्यग्ज्ञानक्रियायुक्तस्सम्यग्धर्मशास्त्रार्थदेशक : ' धर्मज्ञो