________________
न्यायप्रकाशसमलते प्रयोगाद्विशेष इति वाच्यम् । वादेऽपि तदभ्युपगमात् , वादलक्षणे हि सिद्धान्ताविरुद्ध इत्यनेनापसिद्धान्तस्य पश्चावयवोपपन्न इत्यनेन न्यूनाधिकत्वयोर्हेत्वाभासपश्चकस्य निग्रहस्थानाष्टकस्य तदुपलक्षणेनापरनिग्रहस्थानानाञ्च परेण स्वीकारात्। प्रतिपक्षस्थापनाहीनाया वितण्डायास्तु कथात्वमयुक्तमेव । वैतण्डिको हि स्वपक्षमभ्युपगम्यास्थापयन् यत्किश्चिद्वादेन परपक्षमेव दूषयन् कथमवधेयवचनो भवेदिति । तस्माज्जल्पवितण्डानिराक- 5 रणेन वाद एवैककथात्वं लभत इति स्थितम् ।। अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकविशेषमाह
कथारम्भकस्तु जिगीषुस्तत्त्वनिर्णिनीषुश्च ॥ कथारम्भकस्त्विति । क्वचिजिगीषुः प्रथमं वादमारभते, कचिच्च तत्त्वनिर्णिनीषुः । तथा प्रतिवादिन्येकस्मिन्नपि प्रौढे बहवोऽपि सम्भूय विवदेरन् जिगीषवः, पर्यनुयुञ्जीरंश्च 10 तत्त्वनिर्णिनीषवः । स च प्रौढतयैव तान् तावतोऽप्यभ्युपैति प्रत्याख्याति तत्त्वश्चाचष्टे । कचिदेकमपि तत्त्वनिर्णिनीषु बहवोऽपि प्रतिबोधयेयुः । अत एव तत्त्वनिश्चयसंरक्षणं जल्पवितण्डयोरेव फलं, वादस्य तु तत्त्वनिर्णय एव, तत्र जिगीपोरनधिकारादिति प्रत्युक्तम् । वादस्याविजिगीषुविषयत्वासिद्धेः, वादो नाविजिगीषुविषयो निग्रहस्थानवत्त्वात् जल्पवित. ण्डावदित्यनुमानाच्च । न च वादे सतामप्येषां निग्रहबुद्धयाऽनुद्भावनान्न विजिगीषाऽस्ति, 15 किन्तु तत्र निवारणबुद्ध्यैवोद्भावनमिति वाच्यम् जल्पवितण्डयोरपि तथोद्भावननियमप्रसङ्गात् । तत्त्वाध्यवसायसंरक्षणस्य छलजातिनिग्रहस्थानैर्वस्तुतः कर्तुमशक्यत्वाञ्चेति ॥ .
अथ कोऽसौ जिगीषुस्तत्त्वनिर्णिनीषुश्चेत्यत्राह
१. वक्त्राऽभिप्रायेण प्रयुक्तस्य शब्दस्याभिप्रायान्तरकल्पनया तन्निषेधनं छलम् । यथा नवकम्बलोऽयमिति नूतनकम्बलाभिप्रायेणोक्ते परः कुतोऽस्य नव कम्बलाः, दृश्यते ह्येक एवेति प्रत्यक्षविरोधमुद्भावयति, एवमेवान्यत्रापि भाव्यम् । वादिना सम्यग्घेतौ हेत्वाभासे वा प्रयुक्ते झटिति तद्दोषतत्त्वाप्रतिभासे हेतुप्रतिबिम्बनप्रायं साधर्म्यतो वैधर्म्यतो वा यदि प्रयुक्त किमपि स जातिः, यथाऽनित्यश्शब्दः कृतकत्वाद्धटवदिति प्रयोगे कृते साधणैव प्रत्यवस्थानं यथा नित्यश्शब्दो निरवयवत्वादाकाशवदिति, न चास्ति विशेषहेतुर्घटसाधर्म्यात्कृतकत्वादनित्यश्शब्दो न पुनराकाशसाधान्निरवयवत्वात्स नित्य इति । तत्रैव वैधर्येण प्रत्यवस्थानं यथा तत्रैव प्रतिहेतुर्वैधर्येण प्रयुज्यते अनित्यं हि सावयवं दृष्टं यथा घटादीति, न चास्ति विशेषहेतुर्घटसाधात् कृतकत्वादनित्यश्शब्दो न पुनस्तद्वैधान्निरवयवत्वान्नित्यमितीति । वादकाले वादी प्रतिवादी वा येन निगृह्यते तन्निग्रहस्थानं, हेत्वाभासादिबहुविधं, गौरवात्तन्नात्र प्रदर्यते, अन्यत्र विलोकनीयमिति ॥