________________
तस्वन्यायविभाकरे
[ शमकिरणे वादिनो जयति । आभासतोद्भावनयैव स्वपक्षे साधनस्योक्तत्वात् , पराजयोऽपि सम्यक्साधने परोक्तदूषणानुद्धरणादपि भवतीति भावः ॥
साधनदूषणात्मकं वचनं कीदृक् स्यादित्यत्राह
साधनात्मकं दूषणात्मकञ्च वचनं स्वस्वाभिप्रेतप्रमाणरूपमेव स्यात् । 5 तदन्यस्य प्रमाणाभामत्वात्रिर्णायकत्वानुपपत्तेः ॥
साधनात्मकमिति। स्वपक्षविषयसाधनपरपक्षविषयदूषणवचने प्रमाणरूपे एव स्यातामिति भावः । अन्यथात्वे दोषमाह तदन्यस्येति, प्रमाणान्यस्य वचनस्येत्यर्थः । निर्णायकत्वानुपपत्तेरिति, प्रमाणस्यैव वस्तुनिर्णायकत्वादिति भावः । ननु यस्मिन्नेव धर्मिण्येकतरध.
मनिरासेन तदन्यधर्मव्यवस्थापनाय वादिनस्साधनवचनं भवति तत्रैव प्रतिवादिनस्तद्विप10 रीतं कथं दूषणवचनं स्याद्व्याघातादित्याशङ्कायामुक्तं स्वस्वाभिप्रेतेति विशेषणं प्रमाणस्य, तथा
च स्वस्वाभिप्रायानुसारेण प्ररूपिते साधनदूषणवचने विरोधाभावः । वादी हि पूर्व स्वाभिप्रायेण साधनं वक्ति ततः प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति, न खल्वत्र साधनं दूषणश्चैकत्र धर्मिणि तात्त्विकमस्तीति विवक्षितमपि तु निजाभिप्रायानुसारेण वादिप्रतिवादिनौ
प्रयुञ्जाते इति भावः॥ 15 ननु दर्शनान्तरे वादजल्पवितण्डारूपेण कथायात्रैविध्योक्तेः कथं वाद एक एवोक्त .इत्यत्राह
जल्पवितण्डयोस्तु न कथान्तरत्वं वादेनैव चरितार्थत्वात् ॥
जल्पेति । दर्शनान्तरे हि प्रमाणतर्कसाधनोपालम्भसिद्धान्ताविरुद्धः पश्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः, यथोक्तोपपन्नच्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स 20 प्रतिपक्षस्थापनाहीनो वितण्डेति तल्लक्षणान्यभिहितानि । तत्र जल्पस्य न कथान्तरत्वं
वादेनैव चरितार्थत्वात् । न च जल्पे छलजातिप्रयोगस्यानुज्ञानात् वादे चासदुत्तरत्वेन तस्याभावान्न तेन चरितार्थत्वं जल्पस्येति वाच्यम् । असदुत्तरैः परप्रतिक्षेपस्य कर्तुमशक्यत्वात् , नान्यायेन जयं यशोधनं वा महात्मानस्समीहन्ते । अथ प्रबलप्रतिवादिदर्शनात्तजये धर्मध्वंससम्भावनातः प्रतिभाक्षयेण सम्यगुत्तरस्याप्रतिभासादरादुत्तराण्यप्यवाकि25 रनेकान्तपराजयाद्वरं सन्देह इति धिया न दोषमावहतीति चेन्न, अस्यापवादिकस्य जात्या
द्युत्तरप्रयोगस्य कथान्तरसमर्थनसामर्थ्याभावाद्वादतोऽविशेषात् । द्रव्यक्षेत्रकालभावानुसारेण हि यद्यसदुत्तरं कथश्चन प्रयुञ्जीत किमेतावता कथान्तरं प्रसज्येत । न च निग्रहस्थानानामप्यत्र