________________
वादः ] :
न्यायप्रकाशसमलते . नेष्टा, नामनिक्षेपेणैव स्थापनायास्सङ्ग्रहात्, व्यापकं हि नाम व्याप्यभूतां स्थापनां सङ्गहात्येव, इन्द्रचित्रस्येन्द्रनामकपिण्डवन्नामेन्द्रत्वं स्यादविशेषात् पदप्रतिकृतिभ्यां नाम्नो द्वैविध्यादिति वाच्यम् , द्रव्यनिक्षेपस्यापि नाम्ना सङ्ग्रहप्रसक्तः । न च भावप्रवृत्तिप्रयोजकसम्बन्धभेदेन तयोर्भेदः, द्रव्यं हि परिणामितया भावे सम्बद्धं नाम च वाचकत्वेनेति वाच्यम् , गोपालदारके नामेन्द्रे नियामकस्य दुर्वचत्वाद्भावावाचकत्वादिति । ततश्च सिद्ध- 5 मृजुसूत्रान्तास्सर्वे नयाश्चतुरो निक्षेपानभिलषन्तीति सिद्धान्तवादिनः । सहव्यवहारौ नामादित्रयं ऋजुसूत्रादयश्चत्वारो -भावमिच्छन्ति, नैगमस्तु सङ्ग्रहे व्यवहारेऽन्तर्गत इति सिद्धसेनदिवाकरसूरयः ॥ अवसितं नयनिरूपणमित्याहेतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वरचरणनलिनविन्यस्तभक्तिभरेण तत्पधरेण विजयलब्धिसूरिणा विनिर्मितस्य 10 तत्त्वन्यायविभाकरस्य स्योपशायां न्यायप्रकाशव्याख्यायां नयनिरूपणं नाम
नवमः किरणः ॥
.... अथ दशमः किरणः ॥ ननु व्यवस्थापितं प्रमाणनयतत्त्वं, परन्त्वनयोः प्रयोगः क कार्य इत्याशङ्कायां वस्तुनिर्णयायोपक्रान्ते वाद एवेति विभावयन् वादस्वरूपमाविष्करोति
15 स्वपरपक्षसाधनदूषणविषयं तत्त्वनिर्णयविजयान्यतरप्रयोजनं वचनं. वादः॥ ___ स्वपरेति । वादिनः प्रतिवादिनो वा स्वपक्षसिद्धये यत्साधनं परपक्षविषयकञ्च यषणं तद्विषयकं वचनं वादिप्रतिवादिनोर्वाद उच्यते । तस्य किं प्रयोजनमित्यत्राह तत्वनिर्णयविजयान्यतरप्रयोजनमिति । साधुजनहृदयपयोजविराजमानतत्त्वानां निश्चयस्त द्वारा 20 विजयो वा प्रयोजनं यस्य तादृशमित्यर्थः । वादिनः प्रतिवादिनो वा स्वपक्षस्य सिद्धिर्जयः, तदसिद्धिश्च पराजयः । विज्ञातप्रमाणतदाभासस्वरूपेण वादिना सम्यक्प्रमाणे स्वपक्षसाधनागोपन्यस्तेऽविज्ञाततत्स्वरूपेण वा वादिना प्रमाणाभास उपन्यस्ते प्रतिवाविनाऽनिश्चिततस्वरूपेण दुष्टतया सम्यक्प्रमाणेऽपि तदाभासतायां निश्चिततत्स्वरूपेण वा प्रमाणाभासे तवाभासतायामुद्भावितायां वादिनः प्रतिवादिनो वा प्रमाणतदाभासौ परिहतापरिहृतदोषौ 25 साधनदूषणे भवतः; ते च जयेतरव्यवस्थाया निबन्धने स्यातामिति जयपराजयावपि पादस्य फले । तथा स्वपक्षे साधनमब्रुवन्नपि प्रतिवादी वादिसाधनस्याभासतामुद्भावयन्