________________
तत्त्वन्यायविभाकरे
[ नवमकिरणे तमसमयभावी, संख्याततमसमयभावी वेति । भावतोऽपि किं. कृष्णवर्णो गौरवर्णो दीर्घा मन्थरो वेत्यादि । तदेवमेकोऽपि नामेन्द्रस्याश्रयभूतोऽर्थस्तावद्रव्यक्षेत्रकालभावाधिष्ठितोऽनन्तभेदत्वं प्रतिपद्यते । तथा स्थापनाद्रव्यभावाश्रयस्याप्युक्तानुसारेण प्रत्येकमनन्तभेदस्वमनुसरणीयम् । एते च नामादयो भेदकारिणः । एवमेकस्मिन्नपि. शचीपत्यादाविन्द्र इति 5. नाम्नस्तदाकारस्थापनाया उत्तरावस्थाकारणरूपद्रव्यस्य दिव्यरूपसम्पत्तिकुलिशधारणपारमैश्व
योदिसम्पन्नत्वलक्षणभावस्य च प्रतीयमानत्वान्नामादिचतुष्टयस्याभेदकारित्वमपि । अत एते नामादयो धर्मा उत्पादव्ययध्रौव्यत्रिकवत्प्रतिवस्तु परस्पराविनाभाविन इत्यलं चर्चया । अथ नामादिनिक्षेपाणां नयैस्सह योजने शब्दनयैर्भावनिक्षेप एवेष्टः परैरर्थनयैर्नामादयश्वस्वारोऽपीष्टाः । यद्यपि नामादिचतुष्टयस्याप्यभ्युपगमे नैगमादीनां द्रव्यार्थिकत्वक्षतिः 10 द्रव्यार्थिकेन द्रव्यस्यैवाभ्युपगमात् पर्यायस्य प्रतिक्षेपाच । द्रव्यपर्याययोर्गुणप्रधानभावेन
तेनाभ्युपगमाद्भावनिक्षेपसह एवेति चेत्तदा शब्दनयानामपि द्रव्यनिक्षेपसहत्वं स्यात्तथापि नैगमभेदानामविशुद्धानां नामाद्यभ्युपगमप्रवणत्वेऽपि विशुद्धनैगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न भावनिक्षेपानुपपत्तिर्न चैतावता तस्य पर्यायार्थिकत्वप्रसकिरितराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् । शब्दादीनां पर्यायार्थिकानान्तु नैगमवद15 विशुद्धयभावान्न नामाद्यभ्युपगन्तृत्वमिति । सङ्ग्रहर्जुसूत्रयोरपि विषयविशेषे शुद्धपर्याय
विशिष्टद्रव्यविषयीकरणात् भावनिक्षेपसहत्वम् । ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तन्न, तेन द्रव्याभ्युपगमस्य सूत्राभिहितत्वात् । पृथक्त्वाभ्युपगमस्यैव निषेधात् । सङ्ग्रहव्यवहारौ स्थापनावर्जास्त्रीनिक्षेपानिच्छत इति केचित्तदपि न, नैगमो हि सङ्ग्रहाभिमतसामा
न्यबादी व्यवहाराभिमतविशेषवादी, तदुभयवादी, च, तथा च सङ्ग्रहस्य स्थापनास्वीकनै20 गमसमानत्वेन कथं स्थापनानभ्युपगन्तृत्वम् । न च व्यवहाराभिमतस्वीकनैगम एव
स्थापनाभ्युपगन्ता न सामान्यवादी नैगमोऽतस्सङ्ग्रहो न स्थापनामिच्छतीति वाच्यम्, तथा सति व्यवहारस्य स्थापनाभ्युपगन्तृत्वं स्यात् । अथोभयविषयक एव नैगमस्थापनाविषग्रको नातम्सङ्ग्रहव्यवहारयोत्स्थापनाविषयकत्वमिति चेत्सुतरां तत्प्राप्तिरेव, एकतरनिक्षे
पयोस्सङ्ग्रहव्यवहारयोः प्रत्येकं स्थापनानभ्युपगमेऽपि समुदितयो गमरूपत्वेन तेन तद25 भ्युपगमे तयोरप्यभ्युपगमस्य दुर्वारत्वात् । स्थापनासामान्य सङ्ग्रह इच्छति, स्थापनाविशे
षांस्तु व्यवहार इत्येतदेव युक्तम् , अनिच्छा तु सर्वथा नैव युक्तेति । न च सङ्ग्रहनये स्थापना
१. पाश्चात्यनयाद्विशेषोपयोगेन विशेषमनुभवताऽन्त्यनैगमेन शुद्धपर्यायविशिष्टं द्रव्यं विषयीक्रियत इति भावः । न तु स्वविषयविशुद्धिकृतपर्यायविषयताशालिवाद्भावनिक्षेपसहत्वमेषाम् , सङ्घहर्जुसूत्रयोरव्याप्तः. तज्जातीयेऽविशुद्धयभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुस्साध्यत्वादिति ॥