________________
निक्षेपाः ] न्यायप्रकाशसमलङ्कते
: ५०९:. बाच्यम् , सम्बन्धानुपपत्तेः, कि पूर्व घटः पश्चादभावो वैपरीत्यं वा, उत समकालं वा घटाभावी, नाद्यौ द्विनिष्ठसम्बन्धस्य भिन्नकालयोरसम्भवात् । अन्त्ये घटाभावयोर्यदि क्षणमात्रमपि सहावस्थितिरभ्युपगम्यते तासंसारमसौ स्याद्विशेषाभावात् , तथा च सति घटतादवस्थ्यप्रसङ्गः । न च घटोपमर्दैनाभावो जायतेऽतो घटादिनिवृत्तिरिति वाच्यम् , उपमईस्य घटादिरूपत्वे तस्य स्वहेतुत एवोत्पत्तेः, कपालादिरूपत्वे तद्भावेऽपि घटतादवस्थ्यप्रसङ्गात् । 5 तुच्छाभावरूपत्वे च घटाद्यभावेन घटाद्यभावो जायत इत्युक्तं स्यात्तथा च सत्यात्मनैवात्मभवनानुपपत्तिस्स्यात् । तस्मान्मुद्गरादिसहकारिकारणवैसादृश्याद्विसदृशः कपालादिक्षण उत्पद्यते घटादिस्तु क्षणिकत्वेन निर्हेतुकरस्वरसत एव निवर्तत इत्येतावन्मात्रमेव शोभनमतो हेतुव्यापारनिरपेक्षा एव समुत्पन्ना भावाः क्षणिकत्वेन स्वरसत एव विनश्यन्ति न हेतुव्यापारादिति स्थितम् । तस्माजन्मविनाशयोर्न किश्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाश्च न 10 किश्चित्कस्यचित्कारणं तथा च सति न किञ्चिद्रव्यं, किन्तु पूर्वापरीभूतापरापरक्षणरूपाः पर्याया एव सन्तीति । एते हि स्वतन्त्रा नामादिनया मिथ्यादृष्टयोऽसम्पूर्णार्थग्राहित्वाद्गजगात्रभिन्नदेशसंस्पर्शनेन बहुविधविवादमुखरजात्यन्धवृन्दवत् । अनुभवप्रत्यक्षसिद्धन्तु जैनाभ्युपगमरूपं निःशेषसमूहाभ्युपगमनिर्घत्तमनवद्यं, नामादिनयपरस्परोद्भाविताविद्यमाननिःशेषदोषत्वेन सम्पूर्णार्थग्राहित्वात् , चक्षुष्मतां समन्तात्समस्तहस्तिदर्शनजोल्लापवत् । तथा च यत्र शब्दो- 15 ल्लापबुद्धिपरिणामसद्भावस्तत्सर्वं नामादिचतुष्पर्यायम् , चतुष्पर्यायत्वाभावे शशशृङ्गादौ शब्दादिपरिणामाभावदर्शनात्, तस्माच्छब्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमेवा. तोऽन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन पृथुबुनोदराद्याकारस्य नामादिचतुष्टयात्मकतया बुद्धस्तदाकारग्रहणरूपतया परिणतिस्तदात्मन्येव वस्तुनि समुपलब्धा । न चेदं दर्शनं भ्रान्तं बाधकाभावात् । नाप्यदृष्टाशंकयाऽनिष्टकल्प- 20 नाऽतिप्रसङ्गात् । नहि दिनकरास्तमयोदयोपलब्धरात्रिंदिवादिवस्तूनां बाधकसम्भावनयाऽन्यथात्वकल्पना सङ्गतिमङ्गति । तस्मादेकत्वपरिणत्यापन्ननामादिभेदेष्वेव शब्दादिपरिणतिदर्शनात्सर्वं चतुष्पर्यायं वस्त्विति स्थितम् । भिन्नस्वरूपतया च नामादयः स्वाश्रयभूतवस्तुनः कथश्चिद्भेदकारिणः, एकस्मिन्नपि वस्तुनि चतुणी प्रतीयमानत्वात्कथञ्चिदभेदकारिणश्च । यथाहि केनचिदिन्द्र इत्युञ्चरितेऽन्यः प्राह किमनेन नामेन्द्रो र विषक्षितस्थापनेन्द्रो द्रव्येन्द्रो भावेन्द्रो वा, नामेन्द्रोऽपि द्रव्यतः किं गोपालदारको हालिकदारकः क्षत्रियदारको वैश्यदारको ब्राह्मणदारकश्शूद्रदारको वा, क्षेत्रतोऽपि नामेन्द्रः किं भारत ऐरावतो महाविदेहजो वा, कालतोऽपि किमतीतकालसम्भवी बार्त्तमानिको भविष्यन् वा, अतीतकालसम्भव्यपि किमितोऽनन्तसमयभावी, असंख्यात.