________________
तत्त्वन्यायविभाकरे
[ नवमकिरणे द्रव्यमुच्यते । न च द्रव्यस्यैकस्वभावत्वे निर्विकारत्वे चानन्तकालभाविनामनन्ताविर्भाव. तिरोभावानामेकहेलयैव कारणत्वं स्यादिति वाच्यम् , अचिन्त्यस्वभावत्वाव्यस्य, सादिद्रव्येष्वेकस्वभावेष्वपि उत्फणविफणादिपर्यायाणां क्रमप्रवृत्तेरनुभवसिद्धत्वात् । न चोत्फणविफणादिबहुरूपत्वात्पूर्वावस्थापरित्यागेनोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य स्यादिति वा३ च्यम्, वेषान्तरापन्ननटवद्बहुरूपस्यापि द्रव्यस्य नित्यत्वात् । यथाहि नायकविदूषककपि
राक्षसादिपात्रावसरेषु वेषान्तराण्यापन्नो नटो बहुरूप एवमुत्फणविफणादिभिर्भावैर्द्रव्यमपि. बहुरूपं तथापि नित्यमेव, स्वयमविकारित्वादाकाशवत् । तथा सर्व भावात्मकम् , परापरकार्यक्षणसन्तानात्मकस्यैव तस्यानुभवात् , प्रतिक्षणं भवनमेव ह्यनुभूयते, पूर्वक्षणस्य
निवृत्तिरपरस्योत्पत्तिरिति । न चोत्पत्तिनिवृत्ती कारणापेक्षिण्यौ, यच्च कारणं तदेव द्रव्यमिति 10 वाच्यम् , निरपेक्षस्यैवोत्पादात् । अपेक्षा हि विद्यमानस्यैव, न च मृत्पिण्डादिकारणकाले
घटादिकार्यमस्ति, अविद्यमानस्य चापेक्षायां खरविषाणस्यापि तथाभावप्रसङ्गात् । यदि चोत्पत्तिक्षणात्प्रागपि घटादिस्स्यात्तदा किं मृत्पिण्डापेक्षया, स्वत एव तस्य विद्यमानत्वात् । न चोत्पन्नस्सन् घटादिर्घत्पिण्डादिकमपेक्षत इति वाच्यम् । मुण्डितशिरसो दिनशुद्धिपर्या.
लोचनवदपेक्षावैयर्थ्यात् । ननूत्पद्यमानतावस्थायामसावपेक्षत इति चेन्न, विचारासहत्वात् , 15 उत्पद्यमानता हि किमनिष्पन्नावयवता, उत निष्पन्नावयवता; आहोस्विदर्धनिष्पन्नावयवता स्यात् । नाद्योऽनुत्पन्नस्यापेक्षाऽयोगाद्गगनारविन्दवत् । न द्वितीयो निष्पन्नस्य परापेक्षावैयर्थ्यात् , नान्त्यो वस्तुनस्सांशताप्रसङ्गात् । सांशतायामप्यनिष्पन्नांशः किं कारणमपेक्षते निष्पन्नो वोभयं वा, नाद्यौ निष्पन्नानिष्पन्नयोरपेक्षाऽसम्भवस्योक्तत्वात् , नान्त्य उभयपक्षो
दीरितदोषसङ्क्रमात् । तस्मान्मृत्पिण्डाद्युत्तरकालं भवनमेव घटादेस्तदपेक्षा, कार्यत्वाभिमत20 घटादिप्राग्भावित्वमेव मृत्पिडादेः कारणत्वं, न पुनस्तत्र व्याप्रियमाणत्वात्, व्यापारस्य
व्यापारवद्भिन्नत्वे तस्य निर्व्यापारत्वप्रसङ्गात् , अभिन्नत्वे व्यापाराभावप्रसङ्गात् । कारणव्यापारजन्याया अप्युत्पत्तेरुत्पत्तिमतो भेदे उत्पत्तिमतोऽजन्मप्रसङ्गः, तस्मात्पूर्वोत्तरकालभावित्वमात्रेणैवायं कार्यकारणभावो वस्तूनां लोके प्रसिद्धो न पुनः किञ्चित्केनचिन्निर्वर्तित
मिति न कस्यचिद्भावस्य सम्बन्ध्यपेक्षा, ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावस्समुत्पद्यत 25 इति स्थितम् , एवं विनाशोऽप्यहेतुक एव । न च मुद्गरादिसव्यपेक्षा एव घटादयो विनाशमा
विशन्तो दृश्यन्ते न निर्हेतुका इति वाच्यम् , विनाशहेतोरयोगात्, विनाशकाले मुद्गरादिना किं घटादिरेव क्रियते कपालादयो वा तुच्छरूपाभावो वा, नाद्यः कुलालादिसामग्रीत एव तस्योत्पत्तेः । न द्वितीयो घटादीनां तादवस्थ्यप्रसङ्गात् । न तृतीयो नीरूपस्य तस्य खरशृङ्गस्येव कर्तुमशक्यत्वात् । न च तेन घटादिसम्बद्धनाभावो विहितस्तेन घटादेनिवृत्तिरिति