________________
अथ तृतीयो भागः
प्रथमः किरणः तदेवं मोक्षसाधनावयवभूते सम्यश्रद्धासंविदौ निरूपिते तथा निरूपितमेव च संवर- 5 निरूपणे सम्यक्चरणं तदङ्गत्वेन संक्षेपतः, अत्र तु कर्माष्टकशून्यताप्रयोजकानुष्ठानलक्षणचारित्रस्य नित्यानुष्ठानप्राप्तप्रयोजनानुष्ठानतो द्वैविध्यात्तद्रुबोधयिषया एककार्यकारित्वप्रयोज्यत्वावसरसङ्गतिभिान निरूपणानन्तरं चरणं निरूपयति
. चरणकरणभेदेन द्विविधं चरणम् ॥ चरणेति । चर्यते मुमुक्षुभिस्सदाऽऽसेव्यत इति चरणम् , चर्यते गम्यते प्राप्यते भवो- 10 दधेः परं कूलमनेनेति चरणं व्रतश्रमणधर्मादिमूलगुणरूपम् । क्रियतेऽनुष्ठीयते सति प्रयोजने यत्तत्करणं पिण्डविशुद्ध्यादिकं तदेतद्विविधरूपेण सम्यक्चरणं द्विभेदमित्यर्थः । नित्यानुष्ठानरूपं चरणं, प्रयोजने प्राप्ते क्रियमाणं करणम् । व्रतादयो हि सर्वकालमेव साधुभिश्चर्यन्तेऽन्यथा स्वरूपहान्यापत्तेः, न तु व्रतशून्यस्तेषां कश्चित्कालोऽस्ति, पिण्डविशुद्ध्यादिकन्तु प्राप्ते प्रयोजन एव विधीयत इति तदुभयात्मकं चारित्रमिति भावः । तत्र चरणगुणस्थितस्य साधो- 15 विशुद्धिरतो ज्ञानाचरणं प्रधान तत्फलत्वात् । ननु चरणं संवरणरूपा क्रिया सा च ज्ञानाभावे हता, तदुक्तं ' हया अन्नाणतो किरिया' इति, तस्माज्ज्ञानक्रिययोस्समुदितयोर्मोक्षसाधनत्वेनोभयोस्समानत्वमेव न चरणस्य प्रधानत्वमिति चेत्सत्यम् , सम्यक्श्रद्धासंविञ्चरणानि मुक्त्युपाया इति यद्यपि त्रयाणामपि समानकारणत्वमुक्तं तथापि गुणप्रधानभावोऽस्ति, ज्ञानं प्रकाशकमेव, चरणन्त्वभिनवकर्मादाननिरोधफलं निर्जराफलच, ततो यद्यपि ज्ञानमपि प्रकाश-20 कतयोपकरोति सदर्शनज्ञानचरणद्विकाधीनो मोक्षस्तथापि प्रकाशकतयैव व्याप्रियते ज्ञानं कर्ममलशोधकतया तु चरणमिति प्रधानगुणभावाचरणं ज्ञानसारः । उक्तश्च ' नाणं पयासयं वी गुत्तिविसुद्धिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो' इति । एवं सम्यश्रद्धाया अपि सारश्चरणं तस्मात्रितयस्यैव समुदितस्य निर्वाणहेतुत्वं तत्रोभयोश्चरणद्वारा धरणस्य च साक्षाद्धेतुत्वमिति विशेषः, ततो न केवलं ज्ञानं मोक्षहेतुः, केवलज्ञानसद्भावेऽपि शैलेश्यवस्थाभाविसर्वसंवररूपचारित्रमन्तरेण निर्वाणाभावादतस्सम्यग्ज्ञानस्यैव मोक्षसाधन