________________
: ५०४ : तत्वन्यायविभाकरे
[ नवमकिरणे सकलातिशायिभगवद्गुणध्यानस्य सुतरां सम्भवात् । सिद्ध एव च बहूनां प्रतिमादर्शनादोध्युदयोऽपि । न च नाम्नो नामिना सह वाच्यवाचकभावसम्बन्धोऽस्ति न स्थापनाया इति विशेष इति वाच्यम् , इतरनिक्षेपानिरूपकेण भावनिक्षेपेण सह नामस्थापनयोस्सम्बन्धाविशेषात् । वाच्यवाचकभावसम्बन्ध एव ग्राह्यो न स्थाप्यस्थापकभाव इत्यत्र विनिगम5 काभावात् , तस्मात्त्वया नामस्थापनाद्वयमेव भगवदध्यात्मोपनायकत्वाविशेषेण वन्यं स्यात्
द्वयमेव वा त्याज्यं स्यात् , अन्तरङ्गप्रत्त्यासत्त्यभावस्य तुल्यत्वात् , न चैतदिष्टम् , परेणापि नाम्नोऽङ्गीकारात् । तथा च स्थापना यद्यवन्द्या स्यात्तदा नामाप्यवन्द्यं स्यादिति विपर्ययपर्यवसायकस्तर्कः, भावनिक्षेपो यद्यवन्धस्थापनानिक्षेपप्रतियोगी स्यादवन्द्यनामनिक्षेपप्रति
योग्यपि स्यादित्यनिष्टप्रसञ्जकस्तर्को बोध्यः । तथा च निक्षेप्यमाणभावाहतोऽभेदबुद्धर्नामादि10 त्रयमेव कारणमागमप्रामाण्यात्स्वानुभवाच्च । एतेन भावनिक्षेपाध्यात्मोपनायकत्वेन नामादि
निक्षेपत्रयस्याहत्प्रतिमास्थापनानिक्षेपस्वरूपत्वेनानादृतवतां भावनिक्षेपं पुरस्कुर्वतां मतं व्युदस्तम् । निक्षेपत्रयानादरे भावोल्लासस्यैष कर्तुमशक्यत्वात् , शास्त्र इव नामादित्रये हृदयस्थिते सति भगवान् पुर इव परिस्फुरति, हृदयमिवानुप्रविशति, तन्मयीभावमिवापद्यते, तेन सर्व
कल्याणसिद्धिस्तस्माद्भावोल्लासस्तदधीनो नहि नैसर्गिक एव भावोल्लास इत्यस्ति जैनमत एका15 न्तः, सर्वव्यवहारविच्छेदप्रसङ्गात् । न च भावार्हद्दर्शनं भव्यानां यथा स्वगतफलं प्रत्यव्यभि
चारि न तथा निक्षेपत्रयप्रतिपत्तिरिति तदनादर इति वाच्यम् , स्वगतफले स्वव्यतिरिक्तभावनिक्षेपस्याप्यव्यभिचारित्वाभावात् , नहि भावार्हन्तं दृष्ट्वा भव्या अभव्या वा प्रतिबुद्ध्यन्त इति । स्वगतभावोल्लासनिमित्तत्वन्तु समानं निक्षेपचतुष्टयेऽपि । एतेन स्वगताध्यात्मोपनाय
कतागुणेन वन्द्यत्वमपि चतुष्टयाविशिष्टमेव । शिरश्चरणसंयोगरूपवन्दनस्य भावभगवतोऽपि 20 शरीर एव सम्भवात् , न त्वरूपे भावभगवति, आकाश इव तदसम्भवात् । भावसम्ब
न्धाच्छरीरसम्बद्ध वन्दनं भावस्यैवाऽऽयातीति तु नामादिष्वपि तुल्यमेव । न च महानिशीथे भावाचार्यस्य तीर्थकृत्तुल्यत्वमुक्तमतो निक्षेपत्रयस्याकिश्चित्करत्वमिति भावनिक्षेप पुरस्कुर्वतां कोऽपराध इति वाच्यम् , तद्वचनस्य परमशुद्धभावग्राहिनिश्चयनयविषयत्वात् ,
यन्मते ह्येकस्यापि गुणस्य त्यागे मिथ्यादृष्टित्वमिष्यते तन्मते निक्षेपान्तरानादरेऽपि 25 नैगमादिनयवृन्देन नामादिनिक्षेपाणां प्रामाण्याभ्युपगमात्क इव व्यामोहो भवतः, सर्वनय
सम्मतस्यैव शास्त्रार्थत्वात् , अन्यथा सम्यक्त्वचारित्रैक्यग्राहिणा निश्चयनयेनाप्रमत्तसंयत एव सम्यक्त्वस्वाम्युक्तो न प्रमत्तान्त इति श्रेणिकादीनां बहूनां प्रसिद्धं सम्यक्त्वं न स्वीकरणीय स्यात् । एवञ्च · जो जिणदिढे भावे चउव्विहे सहहाइ सयमेव । सयमेव न णिहत्ति य स निओगरुईत्ति णायव्वो' इत्युत्तराध्ययनवचनाच्चतुर्विधशब्दस्य नामस्थापनाद्रव्यभावभेद