________________
निक्षेपाः
म्यायप्रकाशसमलङ्कृते
: ५०५ :
मिन्नत्वेन व्याख्या निक्षेप चतुष्टयस्यापि यथौचित्येनाराध्यत्व मविरुद्धमिति । अनुभूतस्यानुभवि - ष्यमाणस्य वा पर्यायस्य योग्यं यन्निक्षिप्यते स द्रव्यनिक्षेपः । यथाऽनुभूतेन्द्रपर्यायोऽनुभवि - ष्यमाणेन्द्रपर्यायो वेन्द्रः, अनुभूतघृताधारत्वं पर्यायेऽनुभविष्यमाणघृताधारत्व पर्याये वा घृतघटव्यपदेशवत्तत्रेन्द्रशब्दव्यपदेशोपपत्तेः । कचिदप्राधान्येऽपि द्रव्यनिक्षेपः प्रवर्त्तते यथाङ्गारमईको द्रव्याचार्यः, आचार्यगुणरहितत्वादप्रधानाचार्य इत्यर्थः । क्वचिदनुपयोगेऽपि, यथाऽ- 5. नाभोगेनेहपरलोकाद्याशंसा लक्षणेना विधिना च भक्त्यापि क्रियमाणा जिनपूजादिका द्रव्यक्रिया एव, अनुपयुक्तक्रियायास्साक्षान्मोक्षाङ्गत्वाभावात् । भक्त्याऽविधिनापि सा क्रियमाणा पारम्पर्येण मोक्षाङ्गत्वापेक्षया द्रव्यतामश्नुते भक्तिगुणेनाविधिदोषस्य निरनुबन्धीकृतत्वात् ॥
विवक्षितक्रियानुभवयुक्तो भावो यो निक्षिप्यते स भावनिक्षेप:, यथेन्दनक्रियापरिणतो भावेन्द्र इति । ननु भावभिन्नानामादिषु त्रिषु नाम्नो भावार्थशून्यत्वेन स्थापनाया द्रव्यस्य 10 चाविशेषेण वृत्तेर्विरुद्धधर्माध्यासाभावाश्ञ्च न कोऽपि भेद इति चेन्न, रूपान्तरेण विरुद्धधर्माध्यास सम्भवेन भेदोपपत्तेः । स्थापनायां परिदृश्यमानानामाकाराभिप्राय बुद्धिक्रियाफलानां नाम्नि द्रव्ये चाभावात्, तथाहि स्थापनेन्द्रे लोचन सहस्रकुण्डलकिरीटंशचीसन्निधानकरकुलिशधारणसिंहासनाध्यासनादिजनितातिशयो देहसौन्दर्यादिराकारो दृश्यते, स्थापनाकर्तुच सद्भूतेन्द्राभिप्रायो विलोक्यते, द्रष्टुश्च तदाकारदर्शनादिन्द्रबुद्धिरुपजायते, एनमुप- 15 सेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिक्रिया संवीक्ष्यते । प्रायेण पुत्रोत्पत्यादिकं फलनोपलभ्यते, न च तथा नामेन्द्रे द्रव्येन्द्रे वा, तस्मात्ताभ्यां स्थापनाभेदः । द्रव्यमपि मावस्य कारणत्वात्ताभ्यां भिन्नम्, यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तकाले भावस्योपयोगलक्षणस्य भवति कारणम्, सोऽपि वोपयोगलक्षणो भावस्तस्यानुपयुक्त वक्तृरूपस्य
1
१. लक्षणे योग्यता चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदेन त्रिविधा, अतीतानागतौ च वर्तमानभवभावेन क्वचिदन्तररहितौ ग्राह्यौ, अन्यथाऽतीतानागतानन्तभवेष्वपि द्रव्यपदव्यपदेश्यप्रसङ्गस्स्यात्, वर्तमानभवस्थितो हि पुरस्कृतभवं पश्चात्कृतभवम्वायुष्कर्म सद्द्रव्यतया स्पृशति यथा प्रत्यूषसन्ध्यायामादित्यः पूर्वविदेहं भरतश्च प्रदोषसन्ध्यायान्तु भरतमपरविदेहञ्चावभासयति । तीर्थङ्कर नामकर्मघटितयोग्यतया तु नानाभवन्यवधानेनापि भवति, मरीचेद्रव्यतीर्थ करत्वप्रतिपादनात् । सुदूरव्यवहितानामपि द्रव्यतीर्थकृतां वन्द्यत्वप्रतिपादनस्य नानाभवसम्बन्धघटितयोग्यतां विनाऽनुपपत्तेश्चेति ॥ २. सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतद्गतगुणस्मृति जनकसंस्कारोद्बोधकाभिप्रायाकारान्यतरसम्बन्द्धवत्त्वं तत्स्थापनात्वम् । एवञ्च सादृश्यसम्बन्धस्य न स्थापना निक्षेपनियामकत्वम्, असद्भावस्थापनोच्छेदप्रसङ्गात् । नाभिप्रायसम्बन्धस्यापि नाम्न्यपि तस्य सुवचत्वेनातिप्रसङ्गादिति । अत एव द्रव्यलिङ्गिनि स्थापनाया न भावसाधुबुद्धिः, उत्कटदोषवत्त्वेन प्रतिसन्धीयमानस्य सादृश्याद्गुणवदनुस्मृतेः सूत्रबोधितबलवदनिष्टानुबन्धिनीत्वात् ॥
૪