________________
निक्षेपाः ]
न्यायप्रकाशसमलते व्याकरणाञ्च निक्षेपः फलवानित्यभियुक्तोक्तेः । स जघन्यतोऽपि चतुर्विधः नामस्थापनाद्रव्यभावभेदात् । अन्यार्थे स्थितोऽपि स्वार्थनिरपेक्षस्समानार्थकशब्दानभिधेयो विवक्षिता. र्थसङ्केतवान् नामनिक्षेपः । यथा सङ्केतितमात्रेणान्यार्थस्थितेनेन्द्रादिशब्देन गोपालदारकोऽभिधीयते, स च गोपालदारको नेन्द्रसमानार्थकशक्रादिपर्यायशब्दाभिधेयोऽतो गोपालदारकादौ इन्द्राद्यभिधानं यत् क्रियते तन्नाम भण्यते । यद्यपि समानार्थक शब्दानभि- 5 घेयत्वं गोपालदारकगतधर्म एव तथापि नाम्न्युपचरितोऽवसेयः ॥ अन्यत्रावर्त्तमानपि यदृच्छयैवमेव गोपालदारकादेर्डित्थोडवित्थ इत्याद्यभिधानं क्रियते तदपि नामेति सूचयितुमन्यार्थे स्थितोऽपीत्यत्रापिशब्दः । तदिदं नाम द्विविधं यावद्रव्यभाव्ययावद्र्व्यभावि चेति, मेरुद्वीपसमुद्रादिनाम यावद्रव्यभावि यावत्तच्छब्दवाच्यद्रव्यावस्थानं तावत्ततत्तन्नाम्नो वृत्तेः । देवदत्तादिनाम तु न यावत्तद्वाच्यद्रव्यावस्थानमवतिष्ठते, अपरापरनामपरावर्त्तस्य लोके 10 दर्शनात्, ततस्तन्नामायावद्रव्यभाव्युच्यते । अपिशब्दोऽन्यस्यापि समुच्चायकस्तेन पुस्तकपत्रचित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्य सङ्ग्रहः ॥ सद्भूतार्थाध्यव. सायेन सद्भूतार्थशून्यं सद्भूतार्थसमानाकारं निराकारं वाऽल्पकालीनं यावत्कथिकं वा यद्वस्तु स्थाप्यते सा स्थापना । यथा सद्भूतेन्द्रसमानाकारं चित्रलेप्यकाष्ठपाषाणादिष. अक्षादिषु निराकारमिन्द्रस्थापनम् , एतच्चेत्वरकालम् । नन्दीश्वरचैत्यप्रतिमादि तु याव- 15 स्कथिकम् । अत्र केचित्स्थापनामत्यन्तानुपयोगिनी मन्वते तदतीव तुच्छम् । नामादिवत्स्थापनाया अप्युपकारित्वात् । यदि भगवदादीनां स्थापनाऽनुपकारिणी स्यान्ना. मस्मरणमप्यनुपकारि स्यात् , नाम्नः पुद्गलात्मकत्वेनात्मानुपकारित्वात् । न च नाम्नः स्मरणेन नामिस्मरणे तद्गुणसमापत्त्याऽस्ति फलमिति वाच्यम् , भगवत्प्रतिमादर्शनादपि
१. निक्षेपणं शास्त्रादेर्नामस्थापनादिभेदैर्व्यसनं स्थापनमिति वा निक्षेपः, सोऽयं जघन्यतोऽपि चतुर्विधो दर्शनीयः, यत्र तावन्नामस्थापनाद्रव्यक्षेत्रकालभवभावादिलक्षणा भेदा ज्ञाप्यन्ते तत्र तैस्सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वे भेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, नहि किमपि तादृशं वस्त्वस्ति यन्नामादिचतुष्टयं व्यभिचरतीति भावः ॥ २. ननु गङ्गायां घोष इत्यादौ गङ्गादिपदेन गङ्गातीराद्यभिधीयते, तत्र किं. नामनिक्षेपस्य प्रवृत्तिर्निक्षेपान्तरस्य वा, नाद्यः, जाह्नव्यादिपर्यायशब्दाभिधेयत्वेन नामनिक्षेपाप्रवृत्तः, न द्वितीयः प्रसिद्धनिक्षेपान्तराविषयेऽप्रसिद्धनिक्षेपकल्पने तदियत्ताक्षतिप्रसङ्गादिति चेन्न, यथापरिज्ञानं निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोषाभावात् । आभिप्रायिक्यास्स्थापनाया वैज्ञानिकस्य भावनिक्षेपस्य च स्वीकारे दोषाभावात् । गङ्गापदेन तीरे गङ्गाभेदाभिव्यक्तिं विना गङ्गागतशैत्यपावनत्वादिधर्मयोगस्याभिव्यञ्जयितुमशक्यत्वात् । भावनिक्षेपविषयाभेदव्यवहारौपयिकरूपरहितत्वविशेषणेनातिव्याप्तिविरहादिति ॥ ३. स्थापनाबुद्धेः स्थाप्यस्मृतिद्वारा स्थाप्यगतगुणप्रणिधानोद्रेकस्य तजन्यनिर्जरातिशयस्य वा फलत्वम् । स्थापनाविषये उत्कटदोषे प्रतिसन्धीयमाने तु न सा फलवतीति बोध्यम् ॥