________________
तत्त्वन्यायविभाकरे
[ नवमकिरणे शब्दानयभासमाह-- कालादिभेदेन शब्दस्य भिन्नार्थवाचित्वमेवेत्यभेदव्युदसनाभिप्रायः शब्दनयाभासः । यथा बभूव भवति भविष्यति सुमेरुरित्यादी भूतवर्तमान भविष्यत्कालीनान् भिन्नभिन्नानेव प्रमाणविरुद्धान् रत्नसानून 5 भिदधति तत्तच्छब्दा इत्याद्यभिप्रायः॥
. कालादिभेदेनेति । दृष्टान्तमाह यथेति, भिन्नकालशब्दात्तादृसिद्धान्यशब्दवद्वभूव भवति भविष्यति सुमेरुरित्यादयः शब्दा भिन्नार्थमेवाभिदधति इत्येवं प्रमाणविरुद्धाभिप्रायत्वाच्छब्दाभास इति भावः ॥
समभिरूढनयाभासमाह10 .. पर्यायशब्दानां निरुक्तिभेदेन भिन्नार्थत्वमेव न त्वर्थगतोऽभेदोऽ.
पीति योऽभिप्रायः स समभिरूढनयाभासः । यथा शक्रपुरन्दरेन्द्रशब्दानां भिन्नाभिधेयत्वमेव भिन्नशब्दत्वादित्यभिप्रायः ॥
पर्यायशब्दानामिति । दृष्टान्तमाह यथेति, करिकुरङ्गशब्दवद्भिन्नशब्दत्वाच्छादिशब्दानां भिन्नार्थत्वमेव न त्वेकार्थतेत्यभिप्रायः समभिरूढनयाभास इति भावः ।।
एवम्भूतनयाभासमाह
प्रवृत्तिनिमित्तक्रियाविरहितमर्थं शब्दवाच्यतया सर्वथाऽनभ्युपगच्छन्नभिप्रायविशेष एवम्भूतनयाभासः । यथा घटनक्रियाविरहितघटादेर्घटादिशब्दवाच्यत्वव्युदासाभिप्राय इति ॥
प्रवृत्तिनिमित्तेत्ति । स्वव्युत्पत्तिनिमित्तक्रियाविशिष्टं वस्तु ध्वनिवाच्यतया प्रतिजाना20 नोऽपि यः परामर्शस्तदनाविष्टं तदवाच्यतया प्रतिक्षिपति न तूपेक्षते स एवम्भूतनयाभास
इति भावः, व्युत्पत्तिनिमित्तस्यैव प्रवृत्तिनिमित्तत्वमस्य मतमिति द्योतयितुं प्रवृत्तिनिमित्तेत्युक्तम् । निदर्शनमस्याह यथेति, एवमेव द्रव्यमात्रमाही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः, पर्यायमात्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः, अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनया
भासः, शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः, अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपन्न25 र्पितनयाभासः, अनर्पितमभिप्रयन्नर्पित प्रतिक्षिपन्ननर्पितनयाभासः, एवमेव निश्चयनया: भासादिकं भाव्यम् ॥
15