________________
आभासाः ]
सङ्ग्रहाभासमाचष्टे --
न्यायप्रकाशसमलङ्कृते
: ४९९ :
परसामान्यमपरसामान्यं वाभ्युपगम्य तद्विशेषनिराकरणाभिप्रायस्सङ्ग्रहनयाभासः । यथा जगदिदं सदेव तद्व्याप्यधर्मानुपलम्भादिति । अद्वैत सांख्यदर्शने एतदाभासरूपे । एवं द्रव्यमेव तत्त्वं तद्विशेषाणामदर्शनादित्यादयोऽभिप्रायविशेषाः ॥
परसामान्यमिति । स्पष्टम्, दृष्टान्तमाह यथेति, तद्व्याप्येति, ततः पृथग्भूतानां तद्वयाप्यानां विशेषधर्माणामदर्शनादिति हेतुना विशेषधर्मनिराकरणाभिप्रायस्य व्यक्ततया परसमहाभासत्वमिति भावः, अखिलान्यद्वैतदर्शनानि सांख्यदर्शनवात्रान्तर्भवन्तीत्याहा द्वैतेति । अपरसङ्ग्रहाभासमा हैवमिति ॥
व्यवहाराभासमाचष्टे—
काल्पनिक द्रव्यपर्यायाभिमन्ता व्यवहाराभासः । यथा चार्वाकदर्शनम्, तत्र हि काल्पनिक भूतचतुष्टयविभागो दृश्यते, प्रमाणसम्पन्नजीव द्रव्यपर्यायादिविभागस्तिरस्क्रियते ॥
5
10
काल्पनिकेति । अपारमार्थिकद्रव्यपर्याय विभागाभिप्राय इत्यर्थः । उदाहरति यथेति, चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनापह्नुत्याविचा - 15 रितरमणीयं भूतचतुष्टयप्रविभागमात्रं स्थूललोकव्यवहारानुयायितया समर्थयतीत्याशयमाह तत्र हीति चार्वाकदर्शने हीत्यर्थः ॥
कालत्रयेति । उदाहरति यथेति, तथागतो हि प्रतिक्षणविनश्वरपर्यायानेव पारमार्थिकतया समर्थयते तदनुगामि तु प्रत्यभिज्ञादिप्रमाणसिद्धं नित्यं द्रव्यं तिरस्कुरुतेऽतस्तन्मतमृजुसूत्राभास इत्याह बुद्धो हीति ॥
ऋजुसूत्रनयाभासमाह -
कालत्रयस्थायिपदार्थव्युदसनपूर्वकं वर्त्तमानक्षणमात्रवृत्तिपर्यायाव लम्बनाभिप्राय ऋजुसूत्रनयाभासः । यथा बौद्धदर्शनम्, बुद्धो हि क्षण - 20 मात्रस्थायिनमेव पदार्थ प्रमाणतया स्वीकरोति, तदनुगामिप्रत्यभिज्ञाप्रमाणसिद्धमेकं स्थिरभूतं द्रव्यं नाभ्युपैति ॥
25