________________
न्यायप्रकार
वचनसत्यता ] . - न्यायप्रकाशसमलङ्कृते
:५०१: ननु योकैकधर्मसमर्थनपरायणाश्शेषधर्मतिरस्कारकारिणोऽभिप्राया दुर्नयैतां प्रतिपधन्ते तदा वचनमप्येकधर्मकथनद्वारेण प्रवर्त्तमानं सावधारणत्वाच्छेषधर्मप्रतिक्षेपकार्यलीकमापद्यते, ततश्चानन्तधर्माध्यासितवस्तुसन्दर्शकमेव वचनं यथावस्थितार्थप्रतिपादकत्वात्सत्यम् न चैवं वचनप्रवृत्तिः, घटोऽयं शुक्लो मूर्त इत्याद्येकैकधर्मप्रतिपादननिष्ठतया व्यवहारे शब्दप्रयोगदर्शनात , सर्वधर्माणां यौगपद्येन वक्तुमशक्यत्वात् , तदभिधायकानामप्यानन्त्यात्। 5 न चैकैकधर्मसन्दर्शकत्वेऽप्यमूनि वचनान्यलीकानि वक्तुं पार्यन्ते, समस्तशाब्दव्यवहारोच्छेदप्रसङ्गात् । तदलीकत्वे ततः प्रवृत्त्यसिद्धेश्चेति चेदत्रोच्यते, द्विविधा वस्तुप्रतिपादकाः लौकिकास्तत्त्वचिन्तकाश्चेति, अर्थित्वेन प्रत्यक्षादिप्रसिद्धमर्थ लौकिकास्तावन्मध्यस्थभावेन व्यवहारकाले व्यपदिशन्ति, नीलमुत्पलं सुगन्धि कोमलमिति, न तु तद्धर्मिगतधर्मान्तरग्रहणनिराकरणयोराद्रियन्ते, अनर्थित्वात् , तावतैव विवक्षितव्यवहारपरिसमाप्तेः। न च तद्वचनाना- 10 मलीकता, शेषधर्मान्तरानिराकरणात् तथात्व एवालीकत्वात् । न च सर्व वचनं सावधारणमिति न्यायेन तेषामपि वचनानामितरधर्मतिरस्कारत्वसिद्धेरलीकत्वमेव स्यादिति वाच्यम् , अवधारणस्य तदसंभवमात्रव्यवच्छेदे व्यापारात् , अनेकपुरुषसम्पूर्ण सदसि द्वारादौ स्थितस्य किमत्र देवदत्तस्समस्ति नास्तीति वा दोलायमानबुद्धेः केनचिदभिधीयते यथा देवदत्तोऽस्तीति । अत्र यद्यप्युपन्यस्ततत्पदद्वयस्य सावधारणता गम्यते, अन्यथा तदुच्चारणवैयर्थ्यप्रसङ्गात् , तथाप्यव- 15 धारणं तदसंभवमानं व्यवच्छिनत्ति न शेषपुरुषान्तरान् । नापि पररूपेण नास्तित्वं, तद्व्यवच्छेदाभिप्रायेण प्रस्तुतवाक्याप्रयोगात् , प्रयोक्तुरभिप्रायादिसापेक्षतयैव शब्दस्य स्वार्थप्रतिपादनसामर्थ्यात् । न च वाच्यवाचकभावसम्बन्धानर्थक्यम् , तदभावे प्रयोक्त्रभिप्रायादिमात्रेण नियोक्तुमशक्यत्वात् । न च समस्तधर्मयुक्तमेव वस्तु प्रतिपादयद्वचनं सत्यमभिदध्महे, येनैकैकधर्मालिङ्गितवस्तुसन्दर्शकानामलीकता स्यात् , किन्तु सम्भवदर्थप्रतिपादकं सत्यमिति, 20 सम्भवन्ति च शेषधर्माप्रतिक्षेपे वचनगोचरापन्ना धर्माः, तस्मात्तत्प्रतिपादकं सत्यमेव । यदा तु दुर्नयमताभिनिविष्टबुद्धिभिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणाभिप्रायेणैव सावधारणं तत्प्रयुज्यते यथा नित्यमेव वस्तु अनित्यमेव वेत्यादि, तदा निरालम्बनत्वादलीकतां प्राप्नुवत्केन वार्येत । तत्त्वचिन्तकाः पुनः प्रत्यक्षादिप्रमाणसिद्धमनेकान्तात्मकं वस्तु दर्शयन्तो द्वेधा दर्शयेयुः सकलादेशेन विकलादेशेन वा, तत्र विकलादेशो नयाधीनः, सकलादेशः प्रमाणा- 25 धीनः । मध्यस्थभावेन ह्यर्थित्ववशात्कञ्चिद्धर्म प्रतिपिपादयिषवश्शेषधर्मस्वीकारनिराकरण. विमुखया धिया वाचं प्रयुञ्जते तदा तत्त्वचिन्तका अपि लौकिकवत्संमुग्धाकारतयाऽऽचक्षते जीवोऽस्ति कर्ता भोक्ता प्रमातेत्यादि । अतस्सम्पूर्णवस्तुप्रतिपादनाभावाद्विकलादेशोऽभिधी
१. तादृशपदार्थाप्रसिद्धया निरालम्बनत्वादिति भावः ॥ २. सर्व वाक्यं सावधारणमिति न्यायादिति ॥