________________
: ४७८: तस्वन्यायधिभाकरे
[ नवमकिरणे एव सापेक्षो न तु बोध इति वाच्यम् , व्यवहारस्य व्यवहर्त्तव्यज्ञानादधिकानपेक्षत्वेन व्यवहत्र्तव्यज्ञानेऽपेक्षाया अविषयत्वे व्यवहारस्य सापेक्षत्वासम्भवात् । सेयं नयप्रवृत्तिहेतुरपेक्षा वास्तविकी, क्वचिद्वैज्ञानिक्यपि यथा बौद्धौपनिषदादिदर्शनभेदः स्वेच्छानिवेशितत्वेनानेकनयविकाररूपोऽपेक्षया व्यक्तः, शुद्धपर्यायविशुद्धद्रव्याद्यपेक्षयैव तत्तदर्थव्यवस्थितेः । 5 नयविशेषतात्पर्यमेतन्न त्वपेक्षेति चेन्न तत्तात्पर्यस्यापि वस्तुसम्बन्धनरूपापेक्षामालम्ब्य प्रवृत्ते. रसति सम्बन्धे तात्पर्यस्य प्रामाण्यासंभवात् सा चेयमपेक्षा वैज्ञानिकस्सम्बन्धः । अत एव साम्प्रदायिका विकल्पसिद्धस्य धर्मिणः प्रतिषेधादिसाधनमामनन्ति, ईश्वरो नास्ति प्रकृति - स्तीत्यादौ विशिष्टज्ञानाकारविषयत्वेन तत्र धर्मिणो विकल्पसिद्धत्वात् । न च विशिष्टाप्रसिद्धौ
कथं विशिष्टाकारज्ञानमिति वाच्यम् , परेषां विशिष्टशुद्धयोरनतिरेकेऽपि प्रतीतिबला10 द्विशिष्टाभावस्यातिरिक्तत्ववत् विशिष्टाभावेऽपि विशिष्टाकारज्ञानसम्भवात् । न चासत्ख्यातिप्रसङ्गोऽत्यन्तासतो विशिष्टाकारस्य भानादिति वाच्यम् , खण्डशः प्रसिद्धधर्मधर्मिरूपसदुपरागेणासदाकारोत्पत्तेः । यद्वाऽनित्यत्वभावनोद्देशेन बौद्धदर्शनस्यैकत्वभावनोद्देशेन वेदान्तिकदर्शनस्य प्रवृत्त्या तत्तदर्शनार्थज्ञानेषु तत्तद्भावनोद्देशप्रयुक्तत्वमेवापेक्षात्वम् , तेनैव तस्य सुनयत्वव्यवस्थितेः, अन्यथा बौद्धसिद्धान्ते बाह्यार्थज्ञानादिवादानां वेदान्तिसिद्धान्ते च 15 प्रतिबिम्बाभासावच्छेदकदृष्टिसृष्टिवादादीनामन्योऽन्यप्रतिषिछल्वेन जात्या दुर्नयत्वस्य सम्य
ग्दृष्टिपरिग्रहेणापि निराकर्तुमशक्यत्वात् । नहि जात्या हालाहलं सद्वैद्यहस्तोपादानमात्रेणामृतायते, रसायनीकरणन्तु तस्योक्तापेक्षयैवेति दृढतरमवधेयम् । ननूक्तापेक्षयापि शुद्धर्जुसूत्रादीनामितरनयार्थप्रतिषेधप्रवृत्तौ कथं न दुर्नयत्वं, अनिराकृतेतरांशत्व एव सुनयत्वात्
दृश्यन्ते च स्वपरसमयेषु स्वेतरनयार्थबाधेनैव प्रगल्भमाना इति चेन्न तत्रेतरार्थनिषेधस्य 20 प्रकृतकोटेरुत्कटत्वकारित्वात् द्वेषबुद्ध्या क्रियमाण इतरनयनिषेध एव दुर्नयत्वात् पूर्वोक्त
भावनादाढर्यानुकूलस्वविषयोत्कर्षांधानाय क्रियमाणेऽपि प्रतिषेधे सुनयत्वात् जात्या दुर्नयस्यापि चिन्ताज्ञानेन सुनयीकरणात् भावनाज्ञानेनैदम्पर्यार्थप्रधानकप्रमाणवाक्यैकदेशत्वापादनाचेत्यधिकमन्यत्र ॥
ननु नयस्य प्रमाणाद्भेदेन लक्षणप्रणयनमयुक्तं, स्वार्थव्यवसायकत्वात्पूर्वमप्रतिज्ञातत्वाच, है यदि स्वार्थकदेशव्यवच्छेदकत्वान्नयस्य न स्वार्थव्यवसायकत्वमुच्यते तदा यदि स्वार्थेकदेशो
वस्तुरूपस्तदा वस्तुपरिच्छेदकत्वान्नयः प्रमाणमेव, न चेद्वस्तुरूपस्स तर्हि तद्विषयस्य नयस्य मिथ्याज्ञानत्वं स्यादित्यत्राह
यथार्थवस्त्वेकदेशग्राहकत्वान्नयस्य यथार्थनिर्णयत्वरूपप्रमाणत्वं ना.