________________
मयः ] न्यायप्रकाशसमलङ्कृते
:४७९ : स्त्येव । अत एव च नाप्रमाणत्वं, अपि तु प्रमाणाप्रमाणाभ्यां भिन्नं ज्ञानान्तरमेव ॥
यथार्थेति । यथार्थ हि वस्त्वनन्तधर्मात्मकं, तदेकदेशः प्रतिनियतधर्मवान् तत्परिच्छे. दकत्वान्नयो न यथार्थपरिच्छेदकः, अतो न प्रमाण, स्वार्थकदेशो हि न वस्तु, अन्यस्वार्थेकदेशानामवस्तुत्वप्रसङ्गाद् वस्तुबहुत्वानुषङ्गाद्वा, तथा च वस्त्वेकदेशपरिच्छेदको नयः कथं 5 प्रमाणं स्यात् , कथञ्चिद्वस्तुभिन्नत्वादिवैकदेशस्य कथश्चित्प्रमाणभिन्नत्वान्नयस्येति भावः । तर्हि मिथ्याज्ञानं स्यादित्यत्राहात एवेति, यथा वस्त्वेकदेशो नावस्तु, इतरैकदेशानामप्यवस्तुत्वप्रसङ्गेन क्वचिदपि वस्तुव्यवस्थानुपपत्तेः, तथा प्रमाणैकदेशो नयोऽपि नाप्रमाणं, किन्तहींत्यत्राहापित्विति, प्रमाणैकदेशो नयो राश्यन्तर एवेति भावः, न खलु नयः प्रमाणमेव, एकान्तेन प्रमाणाभिन्नतयाऽनिष्टत्वात् नाप्यप्रमाणमेकान्ततस्ततो भेदस्यानभ्युपगमात्, नापि संशयः, 10 प्रकारस्यैक्यात् , एकत्र विरुद्धोभयप्रकारकज्ञानरूपत्वात्संशयस्य, नापि विपर्ययः, द्रव्यार्थिकादीनां नयानामस्तित्वादिमति कथश्चिदस्तित्वाद्यवगाहनात् , नवाऽनध्यवसायो विशेषकोट्युल्लेखित्वात्। सप्तभङ्गपरिकरितवस्त्वगाहितात्पर्याभावादेव चालौकिकप्रामाण्याभाववत्त्वं तस्य, तद्वति तत्प्रकारकत्वरूपं लौकिक प्रामाण्यन्तु न तस्य बाधितमतो न व्यवहारविरोधः, तथा च नयसमुदायसम्पाद्यत्वात्प्रमाणस्य तत्प्रतिज्ञाने तददूरवर्तिनो नयस्य · तन्मध्यपति- 15 तस्तद्ब्रहणेन गृह्यत' इति न्यायेन प्रतिज्ञातत्वमेवेति लक्षणप्रणयनं नाप्रस्तुतमिति भावः ॥ ननु प्रमाणस्य नयसमुदायात्मकत्वात्प्रत्येकं नयानामप्रमाणत्वे तत्समुदायस्य कथमलौकिकप्रमाणता, प्रत्येकं हि सिकतासु तैलमभवत्तासां समुदाये न तदृश्यते इति चेन्न यतः प्रत्येकमनर्येषु मणिषु रत्नावलीत्वव्यवहाराभावेऽपि गुणविशेषपरिपाट्या प्रतिबद्धास्त एवासादयन्ति यथा रत्नावलीव्यपदेशं तथैव नयाः स्वविषयपरिच्छेदकत्वेन सुनिश्चिता 20 अपि नान्यपक्षनिरपेक्षाः प्रमाणसंज्ञां प्राप्नुवन्ति त एव द्रव्यध्रौव्यादिषु मिलिताः प्रमाणसंज्ञां लभन्त इति न कोऽपि दोषः ।
१. ननु नया न समुदायतामासादयन्ति, नापि समेताः प्रमाणतां भजन्ते प्रत्येकावस्थायां मिथ्यादृष्टित्वात् , तत्समुदाये महामिथ्यात्वप्रसङ्गात् , विषबिन्दूनां प्रचुराणां समुदाये महाविषवत् , नापि समेता वस्तुनो गमकाः प्रत्येकावस्थायां तदगमकत्वात् समुदिताश्च ते विवदमाना वस्तुविघातायैव भवन्ति, मैवम् परस्परविरुद्धानामपि आर्हतमतिवशवर्तित्वे प्रमाणभावप्रतिपत्तेः राजवशवर्तिनानाभिप्रायभृत्यवर्गवत् । प्रत्येकं सावधारणत्वेऽपि समुदितानां निरवधारणानां स्याच्छब्दलाञ्छितत्वेन प्रमाणत्वात् । प्रचुरविषलवानामपि प्रौढमंत्रवादादिभिर्निर्विषीकृत्यामृतरूपताकरणात् । सामान्यतो देशग्राहकाणां नयानां समुदितानां मिथ्यात्वापगमेन सम्यक्त्वसद्भावे क्रमेण विशुद्धद्यमानानां सर्वावरणप्रतिबन्धाभावेन समस्तवस्तुप्राहकत्वाकेवलज्ञानवदिति ॥