SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ नयः ] म्यायप्रकाशसमलङ्कृते : ४७७ : त्वच क्षयोपशमजन्यतावच्छेदकजातिविशेषो विलक्षणविषयिता वा । तत्र मानञ्च तद्ध-र्मप्रतिपक्षधर्मवत्तया ज्ञातेऽपि तद्धर्मवत्तया जायमानस्यानुभवस्यान्यथानुपपत्तिरेव । ननु लोकैः कुम्भोऽस्तीत्यादिवाक्यश्रवणसमनन्तरं कुम्भविषय कशाब्दज्ञानस्यैव स्वात्मन्यनुभव - नात्कुम्भविषयकापेक्षात्मकशाब्दबोधस्याननुभवनादपेक्षात्मकनयज्ञानसत्त्वे मानाभाव इति चेन्न, विरुद्धतया भासमानैरनेकैर्धर्मैर्मिश्रितस्य वस्तुनोऽपेक्षां विना विवक्षितैकधर्मप्रकारकनिश्चयविषयीकरणासम्भवात् । अनपेक्षात्मकस्य तद्विरुद्धधर्मप्रकारकज्ञानस्य तत्रानुपपत्तेः । न चापेक्षां विना लौकिकोऽपि व्यवहारस्सङ्गच्छते, अग्रावच्छेदेन कपिसंयो गाभाववति वृक्षे शाखापेक्षयैव कपिसंयोगवत्त्वव्यवहारात् । ननु धर्माणामप्यनन्तानां धर्म्य - भिन्नत्वेन धर्मिग्राहक प्रत्यक्षादेव निखिलधर्माकलितवस्तुनो विवक्षितधर्मप्रकारेणापि निश्चितत्वात्किमपेक्षयेति चेत्सत्यं, यद्यप्येकस्मिन् घटादौ गृह्यमाणे तद्धर्मद्वारा द्रव्यार्थादेशेन भूत- 10 भविष्यद्वर्त्तमानानां तद्वृत्तियावद्धर्माणां ग्रहो जायत एव यथा परेषां सामान्यलक्षणा प्रत्यासत्तेस्थानेऽभिषिक्तस्य घटविषयकतिर्यक् सामान्योपयोगस्य घटत्वव्यापकविषयताक प्रत्यक्षत्वं तादृशज्ञानत्वं वा कार्यतावच्छेदकं तथा घटविषयको तासामान्योपयोगस्यापि तादात्म्य -- सम्बन्धेन तादृशप्रत्यक्षत्वस्य तादृशज्ञानत्वस्य वा न्यायसिद्धत्वात्, न चैवं सति सर्वस्य सर्वज्ञत्वापत्तिर्दोषः, द्रव्यार्थिकतया तस्या इष्टत्वात् तथापि स्फुटतया प्रतिनियतधर्मप्रकारकबोधरसापेक्ष:, शाब्दस्थले नयापेक्षः, प्रत्यक्षादिस्थलेऽवध्य वच्छेदकादिज्ञानापेक्षः । यथाहि दण्डादिग्रहकाले तत्परिमाणग्रहेऽपि दीर्घत्वप्रकारकमयमस्माद्दीर्घ इति ज्ञानं नियतावध्यपेक्षं तथा सदसदात्मकवस्तुग्रहेऽपि सत्त्वादिप्रकारकं ज्ञानं स्वद्रव्याद्यपेक्षं, अयमस्माद्दीर्घ इति वत्स्वद्रव्याद्यपेक्षयाऽयं सन् परद्रव्याद्यपेक्षया चासन्नित्येव व्यवहारात् । न च व्यवहार १. असत्त्वप्रतिपक्ष सत्त्ववत्तया ज्ञातेऽपि घटेऽसत्त्ववत्ताया अनुभवो जायते स चापेक्षां विना न सम्भवति, निरपेक्षसत्त्वासत्त्वयोरेकत्र परस्परं विरोधात् अनुभूयमानस्य त्वपलापो न सम्भवत्यतिप्रसङ्गादत: अपेक्षावलम्बनेनैव तयोर्व्यवस्था कार्येति सिद्धयत्यपेक्षेति भावः । अनुभवस्यैवासिद्धत्वमाशङ्कते नन्विति ।। २. तथा चानपेक्षात्मक तद्धर्मवत्ताबुद्धिं प्रति, अनपेक्षात्मकतदभाववत्ता निश्चयस्यैव प्रतिबन्धकतयाऽपेक्षाया अभावे तद्धर्मवत्तया ज्ञातेऽनपेक्षात्मकतद्विरुद्धधर्मप्रकारकज्ञानं न स्यादिति भावः ॥ ३ येन धर्मेण धर्मी गृहीतस्तद्धर्मद्वारेत्यर्थः । न्यायनये हि घट एकस्मिन् दृष्टे घटत्वरूपसामान्यलक्षणा प्रत्यासत्त्या सकलघट प्रत्यक्षमङ्गीक्रियते सामान्य लक्षणायाश्च कार्यतावच्छेदकं घटत्वव्यापकविषयिताकप्रत्यक्षत्वं इदमेवास्मन्मते सामान्यलक्षणास्थानाभिषिकस्य तिर्यक्सामान्योपयोगस्य घटविषयकस्य कार्यतावच्छेदकं भवति तथैकधर्ममुखेन घटे ज्ञाने सति तदाश्रयाणां तदभिन्नानां यावतां धर्माणां ज्ञानमूर्ध्वता सामान्येन भवति, अत ऊर्ध्वता सामान्योपयोगस्य कार्यतावच्छेदकं तादात्म्यसम्बन्धेन घटव्यापकविषयताकप्रत्यक्षत्वं भवति, घटस्य तादात्म्येन व्यापकीभूता विषयता घटाभिन्नयावद्धर्मेष्विति तादृशविषयताकप्रत्यक्षत्वमिति तदर्थ इति भावः ॥ 5 15
SR No.007268
Book TitleTattva Nyaya Vibhakar
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1943
Total Pages676
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy