________________
:४७६ : तस्वन्यायविभाकरे
[नवमकिरणे स्येति मतमपास्तम्. तस्याकिञ्चित्करवेदनरूपत्वात् सम्यग्ज्ञानानुत्पादकत्वेनावस्तुत्वे संशय. विपर्यययोरपि तथात्वापत्तेः, न चारोपलक्षणाभावादवस्तुत्वमिति वाच्यम् , मुख्यवृत्त्या तथात्वेऽप्युचारवृत्त्याऽऽरोपरूपत्वादित्याशयेनोपचारवृत्त्या भाव्यमित्युक्तम् । इत्येवं प्रमाणपरिपन्ध्यारोपनिरूपणमवसितमित्याहेतीति ।। 5 इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणा विनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाशव्याख्यायामारोपनिरूपणं
नामाष्टमः किरणः ॥
अथ नवमः किरणः॥ 10. नन्वस्मिन्प्रवचने सर्व वस्त्वनन्तधर्मात्मकतया सङ्कीर्णस्वभावं, अतस्तत्परिच्छेदकतया
प्रमाणमपि तादृशमेव, व्यवहारस्त्वसंकीर्णप्रतिनियतधर्मप्रकारकोऽतस्तादृशव्यवहारसिद्धये समर्थः कश्चिदपेक्षणीय एव, यस्तादृशः स एंव नय उच्यत इति तत्प्रबोधनार्थमाह
श्रुताख्यप्रमाणयोधितांशग्राहकोऽनिराकृतेतरांशो वक्तुरभिप्रायवि15 शेषो नयः॥
श्रुतेति । श्रुतमार्हतप्रवचनं तद्रूपं यत्प्रमाणं तेन बोधितमनेकान्तात्मकं वस्तु तस्यांश एकदेशो नित्यत्वादिस्तद्राहकः अनिराकृतेतरांशः, अप्रतिषिद्धानित्यत्वाद्येकदेशो यो वक्तुरभिप्रायविशेषस्स नय इत्यर्थः । नय इति, अनन्तधर्माध्यासितं वस्तु स्वाभिप्रेतकधर्मविशिष्टं नयति
प्रापयति संवेदनमारोहयतीति नयः, प्रमाणप्रवृत्तेरुत्तरकालभावी परामर्श इत्यर्थः तदेवोक्तं 20 श्रुताख्यप्रमाणबोधितांशेति । इतरांशप्रतिक्षेपे तु नयत्वव्याहतेराहानिराकृतेतरांश इति,
वक्तुरभिप्रायविशेष इत्यनेन ज्ञानरूपस्य नयस्यापेक्षात्मशाब्दबोधत्वं प्रदर्शितं तथा चानन्तधर्मात्मकवस्त्वंशभूतप्रतिनियतधर्मप्रकारकापेक्षात्मकशाब्दबोधत्वं ज्ञानरूपस्य नयस्य स्वरूपम् , नयवाक्यस्य तु तादृशापेक्षात्मकशाब्दबोधजनकवाक्यत्वं स्वरूपं बोध्यम् । अपेक्षा.
ध्यवसायस्य तु निस्स्वरूपत्वादवस्तुत्वमिति शङ्काकर्तुराशयः अकिञ्चित्करवेदनत्वं तस्य स्वरूपं सकलस्वभावशून्यत्वे तस्याप्रमाणत्वमपि वक्तुं न शक्यते, अप्रमाणत्वरूपस्वरूपस्य तत्र सत्त्वापत्त्या वस्तुत्वापत्तेरित्याशयेनोत्तरमाह तस्येति ॥
२. दुर्नयस्याप्यधिकृतांशाप्रतिक्षेपकवक्त्रभिप्रायत्वात्तत्रातिव्याप्तिवारणाय श्रुताख्यंप्रमाणबोधितांशग्राहकेति । रूपादिग्राहकरसायप्रतिक्षेपकापायादिवारणाय विशेषपदम् ॥